पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/२६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । २७३

पणाभावात्पृथासूनुरथात्मन्यपि हारिते। आसीकिकार्यतामूढस्तरुभ्रष्टप्लवङ्गवत् ॥ ९४०॥ ततस्तं स्वजनीभूय बभाषे सुबलात्मजः। पणस्तवास्ति पाञ्चाली तयात्मानं विमोचय ॥ ९४१ ॥ इत्युक्ते तेन वैकल्यपल्यङ्कः सह कीर्तिभिः । द्रौपदीमपि कौन्तेयो निनाय पणतां तदा ।। ९४२ ।। गान्धारीसुतगृह्याणामपि केषांचिदक्षिषु । तदाविरासन्नश्रूणि गुणाः सर्वप्रियंकराः ॥ ९४३ ।। दुर्जनैकधुरीणाय तस्मै द्यूतसृजे नमः । येन कामप्यनीयन्त महान्तोऽपीदृशीं दशाम् ॥ ९४४॥ द्रौपदीपणमाहात्म्याद्यदि नाम तपासुतः। इदानीं जयतीत्यादि तदान्योन्यं जगुर्जनाः ॥ ९४५ ॥ क्षणेनाथ भुजास्फोटनादकन्दलितोदयाः । जित जितमिति खैरमुच्चेरुः शकुनेर्गिरः ॥ ९४६ ॥ स्तम्भिता इव मूछीला इव चित्रार्पिता इव । मृता इव ग्रहग्रस्ता इव सभ्यास्तदाभवन् ॥ ९४७ ।। शत्रवः पाण्डुपुत्राणां हरन्तो राज्यसंपदम् । तेनुरुद्भूतसत्त्वानां निःसपत्नां सुखश्रियम् ॥ ९४८ ॥ कौरवाः पर्यपूर्यन्त संमदैः क्षयहेतुभिः । अन्यायसंभृताभोगैर्विभवैरिव दस्यवः ॥ ९४९ ।। अथ दुर्योधनादेशाद्यावदुःशासनो मुदा । वासांसि पाण्डवेयानामपक्रष्टुमचेष्टत ।। ९५० ॥ तावत्ते स्वयमुत्सृज्य चीवराण्यम्बरश्रियः । धृताधोवसनाः पर्पयुपाविक्षन्नवामुखाः ॥ ९५१ ॥ (युग्मम्) अत्रैवानीयतां सापि पुंश्चली पञ्चवल्लभा । इत्यादिशत्कनीयांसं मन्दमेधाः सुयोधनः ॥ ९५२ ॥