पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/२५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला।

सूत्रिते चावधौ राज्यप्रत्याशासुस्थिताशया । अन्यायं वाग्विपर्यासं लज्जयापि न तन्वते ॥ ९२७ ॥ (2) इत्याकर्ण्य गिरः कर्णः सदस्यानामुदाहरत् । सीमा भूमिग्रहेऽमुष्मिन्नस्तु द्वादशवत्सरी ॥ ९२८ ॥ तां कर्णभारतीमोमित्युररीकृत्य वेदितुम् । पुनः प्रावर्तिषातां तौ द्यूतकारावुभावपि ॥ ९२९ ।। हारितायां क्षणादक्षकैतवेन क्षितावपि । चतुरोऽपि पणीचक्रे बान्धवान्धर्मनन्दनः ॥ ९३० ॥ तैश्च दासेरवत्कर्म कर्तव्यं द्यूतहारितैः । अधिमन्दिरमाजन्म धृतराष्ट्रामजन्मनः ।। ९३१ ॥ दुःखस्फुटितहृन्ममकीकसध्वनिबान्धवः । उदगात्पारिषद्यानां महान्हाहारवो मुखात् ।। ९३२ ।। शरीरमिदमात्मीयमस्येव हि पुनः क तत् । यत्र कुत्रचिदित्यन्तः खेदिनस्तस्य नानुजाः ॥ ९३३ ॥ राधेयसौबलादीनामनिन्दन्केऽपि कैतवम् । निनिन्दुर्धार्तराष्ट्रस्य केऽपि विश्वासघातिताम् ॥ ९३४ ॥ निन्दन्ति स्म तपःसूनोः केचिदत्यार्जवं मुहुः । धृतराष्ट्रं सुतस्नेहमोहितं केऽप्यनिन्दिषुः ॥ ९३५ ।। (युग्मम्) क्व इवैतादृशो ज्येष्ठबन्धुः स्वाधीनजीवितः । इति वायुसुतादींस्तु तुष्टाः सर्वेऽपि तुष्टुवुः ॥ ९३६ ॥ हारितेषु प्रतीपेन वेधसावरजेष्वपि । अजातरिपुरात्मानं चकाराकृपणः पणम् ॥ ९३७ ॥ मामेति परिषद्वाक्यैराक्रन्दैरनुजीविनाम् । लोकशोकप्रबादैश्च शब्दाद्वैतं तदाभवत् ।। ९३८ ।। शृङ्गाप्रवद्विरेरापः प्रतिषेधपरा गिरः। भीष्मादीनामवस्थानं लेभिरे न युधिष्ठिरे ॥ ९३९ ॥