पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/२६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

पाण्डवचरित्रम् ।

भीष्मे च धृतराष्ट्रे च धृतराज्यधुरे सति ।
न विदामास साम्राज्यचिन्ताभारक्लमं नृपः ।। ३८८ ॥
दुष्टनिग्रहनिःशूकजागरूकभुजद्वयः।
पाण्डः प्रचण्डदोर्दण्डान्वशीचक्रे विशांपतीन् ॥ ३८९ ॥
कन्दर्पकामिनीरूपदर्पसर्पस्य जाङ्गुली।
गान्धारीप्रभृतिरष्टावुपादायादसोदरा:(१) ॥ ३९० ॥
सुबलक्ष्मापतेः सूनुर्गान्धारपतिरन्यदा ।
शकुनिर्भीष्ममभ्येत्य बद्धाञ्जलिरभाषत ॥ ३९१ ॥ (युग्मम्)
कुलदेव्योपदिष्टाय विशिष्टक्रमशालिने ।
तिष्ठन्ते धृतराष्ट्राय स्वसारो मे पतिंवराः ।। ३९२ ।।
अम्बिकासूनुना नूनमनूनगुणधारिणा ।
एतास्तदार्य सोत्साहं विवाहयितुमर्हसि ॥ ३९३ ॥
इत्त्थभ्यर्थितस्तेन स्वह्नि जह्नुसुतासुतः ।
एतासां पतिमष्टानां धृतराष्ट्रमतिष्ठिपत् ॥ ३९४ ॥
अनुरूपगुणग्रामा पाण्डोरुड्डामरौजसः ।
का कलत्रं भवित्रीति चिन्ताभूगीमचेतसि ।। ३९५ ।।
भीष्मः पाण्डुयुतो जातु पान्थं राजपथे क्वचित् ।
चित्रं चित्रपटव्यग्रकरा कंचिदैक्षत ।। ३९६ ॥
नारीरूपं पटे तत्र दृष्ट्वा पाण्डुरचिन्तयत् ।
एतस्यामेव पर्याप्तं सौन्दर्यकथया ध्रुवम् ॥ ३९७ ॥
नह्येषा रूपरेखा स्यान्मानुषीषु पुरंध्रिषु ।
तदियं कि रतिः किंवा कमला किमु रोहिणी ॥ ३९८ ॥
एतस्याः कोमलाकारावङ्घ्री पङ्केरुहे ध्रुवम् ।
अङ्गुल्यो यत्र पत्रन्ति सौन्दर्यं मकरन्दति ॥ ३९९ ॥
जङ्घाकाण्डे किलैतस्या नाले पादसरोजयोः ।
रम्भास्तम्भायितं चाभ्यामूरुभ्यां यौवनोत्सवे ॥ ४००॥