पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/२७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

३२ काव्यमाला।

नितम्बस्थलमेतस्या जैत्रभूमिर्मनोभुवः ।
यः सदैवात्र वास्तव्यः शास्ति विश्वत्रयीमसौ ॥ ४०१॥
बलिष्ठ एव मध्योऽस्याः कृशोदर्याः कृशोऽपि हि ।
यो वलित्रितयाक्रान्तोऽप्यधिकं पुष्यति श्रियम् ॥ ४०२॥
अपूर्वं निर्वृतिस्थानमेतस्याः स्तनमण्डलम् ।
मुक्ता व्यक्ता विलोक्यन्ते यत्र हारिणि भासुराः ।। ४०३ ॥
एतस्याः सरलाकारो रोमराजिविराजते ।
कन्दर्पदन्तिनो बिभ्रत्यालानस्तम्भविभ्रमम् ।। ४०४॥
यदस्या वदने पश्ये पार्वणेन्दोविलोकनम् ।
गुञ्जापुञ्जेन सार्धं तत्तपनीयस्य तोलनम् ॥ ४०५ ॥
अस्याः सुकेश्याः कबरीभारः केनोपमीयते ।
समालम्बितरोलम्बैः सुस्निग्धो यस्य कालिमा ।। ४०६ ॥
इत्येवं चिन्तयत्येव स्मेरवाम्बुजे नृपे ।
सौधमानीय गाङ्गेयः पृच्छति स्म तमध्वगम् ॥ ४०७ ।।
भद्र प्रबुद्धराजीवमुखी केयमलिख्यत ।
इह चित्रपटे नारी दिव्यनारीविजित्वरी ॥ ४०८ ॥
पान्थः पुरस्तादस्तोकविस्मयमेरचेतसे ।
अथासौ मूलतस्तस्मै तं वृत्तान्तमचीकथत् ॥ ४०९ ॥
मथुरेत्यस्ति वास्तव्यैः श्रीमद्भिर्भूषिता पुरी ।
आलिङ्गतीव कालिन्दी या मुदा वीचिबाहुभिः ॥ ४१० ॥
तेजोधाम यदुर्नाम तस्यामासीन्नरेश्वरः ।
यतोऽभूद्भुवनोत्तंसो वंशो यादवभूभुजाम् ॥ ४११ ।।
प्रतापी तनुजस्तस्य शूरः शूरसमोऽभवत् ।
लीनं यत्रोदिते शत्रुकौशिकैगिरिकन्दरे ॥ ४१२ ॥
तस्य शौरिः सुवीरश्च द्वावभूतां तनूद्भवौ ।
कविबद्धैरपि भ्रान्तं भुवि स्वैरं ययोर्गुणैः ॥ ४१३ ॥