अहारयत्क्रमात्कोशसंभृतं वसु धर्मसू: ।
ग्रीष्मर्तुं पिण्डितं चण्डधामेव जलदागमे ॥ ९१४ ॥
ततः संतापधर्मर्तुरावसत्सुहृदां हृदि ।
विद्विषामुदमीलंस्तु मनस्याह्लादमल्लिकाः ॥ ९१५ ॥
क्रीडारसात्पणीकुर्वन् रथ्यां साश्वीयहास्तिकम् ।
अभ्यधीयत संभ्रान्तैर्गाङ्गेयाद्यैस्तपासुतः॥ ९१६ ॥
क्रीडामात्रं युवा द्यूतमस्माभिर्बह्वमन्यत ।
संप्रत्युन्मत्तमेतत्तु नानुमन्यामहेतमाम् ॥ ९१७ ॥
द्यूतायैश्चेद्विजेष्यन्ते व्यसनैस्वादृशा अपि ।
देवस्तदुष्णधामापि तमोभिर्न्यंक्करिष्यते ॥ ९१८ ॥
व्यसनैः सह वास्तव्याः किमत्र स्युर्गुणाः क्वचित् ।
दृष्टं क्वाप्येकपात्रस्थं पीयूषं च विषं च किम् ॥ ९१९ ॥
द्यूतदावानलादस्मात्तन्निवर्तितुमर्हसि ।
ज्वलत्यैवैष ते पश्य हहा गुणमयः पटः ॥ ९२० ॥
इत्येतां न गिरं तेषामजातारिरजीगणत् ।
सतामपि विधी क्रुद्धे विपर्यस्यति शेमुषी ॥ ९२१ ॥
द्यूतासक्तमनीषास्तमीक्षितुं केचिदत्यजन् ।
त्यजन्ति राजहंसा हि मेघालिमलिनं तमः ॥ ९२२ ॥
हारितेभरथाश्वीयः स कर्णादीनमोदयत् ।
घनास्तग्रहतारेन्दु व्योमेव तिमिरोत्करान् ॥ ९२३ ॥
अथाकरपुरग्रामसमग्रमवनीतलम् ।
ग्लहीकुर्वति कौन्तेये सभ्याः संभ्रान्तमभ्यधुः ॥ ९२४ ॥
न नाम भवति क्षोणिपणोऽयमवधिं विना ।
हन्त दुर्योधनस्यापि मद्र[१]कारोऽव[२]धिः कृतः ॥ ९२५ ॥
सर्वथा निजसाम्राज्यनिराशान्पाण्डवानमून् ।
को निवारयितुं विश्वेऽप्यपणीकुर्वतः पणम् ॥ ९२६ ॥
।, मद्रकारः क्षेमकर इति शब्दकल्पद्रुमः.। २. 'कृतोऽवधिः' इति युक्त प्रतिभाति ॥