पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/२५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२७०
काव्यमाला।

     
तदा सरलचेतोभिर्धातृभिः परिवारितः ।
रेजे धर्मात्मजः पारिजातः कल्पद्रुमैरिव ॥ ९०१ ॥

धार्तराष्ट्रोऽप्यधादृष्टैरावृतः सौबलादिभिः ।
कण्टकद्रुपरीतस्य विलासं विषशाखिनः ॥ ९०२॥

द्वौ द्विकौ द्वौ चतुष्कौ च दश चेत्यादिवादिनोः ।
अक्षयूतमनुस्यूतं ततः प्रववृते तयोः ।। ९०३ ॥

क्रीडामात्रं किमित्यादौ पत्रपूगादिकः पणः ।
ततोऽङ्गुलीयकाद्योऽभूद्द्यूते वृद्धिमुपेयुषि ॥ ९०४ ॥

यदा यस्य जयस्तस्य तदानीं पारिपार्श्वकाः ।
मोदन्ते स्म रविर्यत्र तत्रैव कमलोत्सवः ॥ ९०५ ॥

ताम्बूलं वासरो रात्रिभुक्तिपानादिकाः क्रियाः ।
जगाम विस्मृतिं सर्वं तयो रङ्गेण दीव्यतोः ॥ ९०६ ॥

आसीज्जयस्तयोरन्यतरस्यामुभयोरपि ।
जज्ञे पराजयोऽप्येवं यावद्द्यूतमभूदृजु ॥ ९०७ ॥

गान्धारीकुक्षिगृह्यैः शकुनिप्रमुखैस्ततः ।
कौटिल्यसद्मभिश्छद्मद्य़ूतं तैरुपचक्रमे ॥ ९०८ ॥

अन्धवन्मन्त्रविष्टब्धदृष्टिवद्बूद्धपट्टवत् ।
पतितोऽपि ततो नैक्षि स्वदायो धर्मसूनुना ॥ ९०९ ॥

गान्धारखामिना पूर्वोपदिष्टकरकैतवात् ।
अपातयत्पुनर्जेत्रमेवाक्षं धृतराष्ट्रभूः ॥ ९१० ॥

स मूर्धन्यमणीन्यङ्गभूषणानि तप:सुतः
मरुत्पथ इव प्रातर्भानि सेन्दून्यहारयत् ॥ ९११ ॥

कर्णादीनां ततः प्रीतिबीजैरुच्छ्वसितं मनाक् ।
कौशिका हि सहस्रांशुव्यसनस्पृहयालवः ॥ ९१२ ॥

कियदेतदिति भ्रातृमण्डली पाण्डुजन्मनः
न विव्यथेऽलिमालेव द्वित्रपुष्पव्यये वने ॥ ९१३ ॥