पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/२५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२६९
पाण्डवचरितम् ।

    
तं प्रत्युदगमत्सैन्यैः पृष्ठतो धृतराष्ट्रसूः
पूर्व वामानिलानीतस्तत्परागस्त्वभाग्यवत् ॥ ८८८ ॥

सहानीकैरजातारिर्मनोरथ इवाङ्गवान् ।
प्राविशन्नगरं तस्य तत्कालकलितोत्सवम् ॥ ८८९ ॥

बहिर्विकीर्णवात्सल्यं धृतराष्ट्रं युधिष्ठिरः
सबान्धवोऽपि बाह्यार्द्रं शमीतरुमिवानमत् ॥ ८९० ॥

तथा दुर्योधनस्तस्य तास्ताः खागतिकीः क्रियाः ।
करोति स्म यथा मेने तस्मिन्नैकात्म्यमेव सः ॥ ८९१ ॥

भिद्यन्ते हि भ्रदीयांसः प्रेमभिः कृतकैरपि ।
दारवीयोऽपि नाराचो भिनत्ति कदलीद्रुमम् ॥ ८९२ ॥

भीष्मद्रोणादयो वृद्धाः खेहपहिलचेतसः ।
चिरयत्यात्मजे पाण्डोरिन्द्रप्रस्थमुपाययुः ॥ ८९३ ॥

अथ क्वचन निःसङ्गचतुरङ्गदुरोदराम् ।
क्वचिद्गभचरोदारशारक्रीडामनोहराम् ॥ ८९४ ॥

क्वचित्प्राप्तजयद्यूतकारवाचालनालिकाम् ।
क्वचिञ्च कलितोत्कर्षशलाकाकेलिशालिनीम् ॥ ८९५॥

प्रतिपट्ट प्रतिस्तम्भ प्रत्यश्रि प्रतिपुत्रिकम् ।
अशक्यदर्शनामेकदेशमग्रेक्षणात्ततः ॥ ८९६ ॥

खरामणीयकाक्षिप्तस्वःसद संसदं निजाम् ।
दर्शयामास गान्धारीतनयो धर्ममूनवे ॥ ८९७ ॥
(चतुर्भिः कलापकम् ।)

भ्राम्यन्तौ तौ ततस्तस्यां वीक्षमाणावितस्ततः ।
युवां क्रीडिष्यतः किं वेत्यजल्पेतां महाक्षिकैः ॥ ८९८॥

दुर्योधनोऽप्यभाषिष्ट विष्टपश्रीविशेषतः ।
माननीया महान्तोऽमी दीव्यामो देवनैः क्षणम् ॥ ८९९ ॥

ओमित्युक्तेऽथ धर्मात्मजन्मना तावुभावपि ।
क्रीडितुं प्रक्रमेते स्म देवनैरितरेतरम् ॥ ९००॥