तदेनं कथमप्यस्य निवर्तय कदाग्रहात् ।
द्यूतं हि नायतिक्षेमंकरं कस्यापि दृश्यते ॥ ८७५ ॥
इत्यसौ विदुरस्योक्तिर्धृतराष्ट्रहृदि क्वचित् ।
पूर्णेऽम्भोबिन्दुवत्कुम्भे नावकाशं समासदत् ॥ ८७६ ॥
तावदाप्तगिरा धर्मकृत्यमायतिचिन्तनम् ।
गृह्णाति देहिनां मोहो यावन्मनसि न स्थितिम् ॥ ८७७ ॥
उदारदुःखसंभारविभिन्नहृदयस्ततः ।
रचितोपेक्षमुत्थाय स्वस्थानं विदुरो ययौ ॥ ८७८ ॥
सभावलोकनव्याजादथाह्वातुं तपःसुतम् ।
हास्तिनं नगरं प्रैषीद्धार्तराष्ट्रो जयद्रथम् ॥ ८७९ ॥
हस्तिनापुरमभ्येत्य संवेगाद्वाग्मिनां वरः ।
स्नेहदाक्षिण्यभूयिष्ठं युधिष्ठिरमभाषत ॥ ८८० ॥
देव दुर्योधनस्तुभ्यं मया विज्ञापयत्यदः ।
बान्धवेषु समग्रेषु त्वमेव मम जीवितम् ।। ८८१ ।।
तन्ममाभिनवां दिव्यां संसदं द्रष्टुमर्हसि ।
मनोज्ञमपि नाभीष्टैरदृष्टं हि मुदे सताम् ॥ ८८२ ॥
इन्द्रप्रस्थं ततः प्रस्थमेयानन्दं त्वदागमे ।
अद्यास्तु नूतनोत्सर्पदुत्सवक्षीवतां गतम् ॥ ८८३ ॥
इत्याकर्ण्य तपासूनुर्जयद्रथसरस्वतीम् ।
इन्द्रप्रस्थं ततः प्रीत्या चचाल सरलाशयः ॥ ८८४ ॥
सह द्रुपदनन्दिन्या कनीयांसस्तमन्वयुः ।
पौरस्त्यमारुतं सार्धं विद्युतेव पयोमुचः ॥ ८८५॥
तरङ्गपवनोद्धूतमनुस्वर्धुनि गच्छतः ।
सहगामीव धर्मोऽस्य विरेजे कैतकं रजः ।। ८८६ ॥
तस्यासेदे बलैः संपन्माद्यदुद्यानमण्डिता ।
अरिव्रातमनःशल्यैरिन्द्रप्रस्थोपशल्यभूः ।। ८८७ ॥
पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/२५५
एतत् पृष्ठम् परिष्कृतम् अस्ति
२६८
काव्यमाला।