अथ प्रतस्थे दैवज्ञदत्तेऽह्नि सहितो नृपः ।
कोशलां प्रति लक्ष्मीं स्वां ग्रहीष्यन्बलवान्नलः।। ८४९ ॥
स क्रमात्तिरयन्सैन्यपांशुपूरैरहस्करम् ।
अध्यतिष्ठदयोध्यायाः काननं रतिवल्लभम् ॥ ८५० ॥
बहिरुद्यानमायातमाकर्ण्यातिबलं नलम् ।
कूबरस्य मनोऽकार्षीत्संकथां मृत्युना समम् ॥ ८५१ ॥
तं दूतेन नलोऽवादीद्दीव्य भूयोऽपि देवनैः ।
त्वल्लक्ष्भ्यः सन्तु मे हन्त मल्लक्ष्म्यस्तव सन्तु वा ॥ ८५२ ॥
मृत्युभीतिमथापास्य कूबरः प्रीतिबन्धुरः ।
भूयो द्यूतमुपाक्रस्त लब्धास्वादो हि तत्र सः ॥ ८५३ ॥
क्षणात्कूबरतोऽजैषीत्काश्यपीं निखिला नलः ।
पुंसां भाग्येऽनुकूले हि सिध्यन्ति सकलाः क्रियाः ॥ ८५४ ॥
राज्यं भूयोऽप्यलंचक्रे नलोऽनलसविक्रमः ।
नमोऽङ्गाणमिव प्रातर्देवः कमलिनीपतिः ॥ ८५५॥
जितश्रीरपि दुष्टोऽपि स्वबन्धुरिति कूबरः।
राज्ञार्द्रमनसा चक्रे पूर्ववद्यौवराज्यभाक् ।। ८५६ ॥
तत्तदाभून्नल: कामं सतां श्लाघास्पदं परम् ।
कूबरः स पुनः क्रूरकर्मा निन्दानिकेतनम् ॥ ८५७ ॥
प्राज्यभाग्ये नले भूयः स्वराज्यमधितस्थुषि ।
माङ्गल्योपायनान्येयु[१]र्भरतार्धमहीभुजाम् ।। ८५८ ॥
नलश्च दमयन्ती च राज्यश्रीभिरलंकृतौ ।
बद्धोत्सवं ववन्दाते कोशलाचैत्यमण्डलीम् ।। ८५९ ॥
भरतार्धधराधीशशिरोभिर्धतशासनः ।
भूयांस्यब्दसहस्राणि मेदिनीमभुनग्नलः ॥ ८६० ॥
आख्यातसमयोऽभ्येत्य निषधः स्वर्गिणा दिवः ।
पुष्कलाख्ये सुतेऽन्येद्युर्न्यस्य राज्यभरं नलः ॥ ८६१ ॥
१. आसमन्तादीयुरित्यर्थः ।
- ↑ १