पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/२५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२६५
पाण्डवचरितम् ।

 
दधिपर्णोऽपि संभ्रान्तः प्रणम्य नलमभ्यधात् ।
देव प्राचीनमज्ञानादपराधं क्षमस्व मे ॥ ८३६ ॥

त्यक्तः कुब्जत्ववैरूप्यो नलः स्वं रूपमास्थितः ।
निर्मुक्त इव भोगीन्द्रस्तदानीं दिद्युतेतराम् ॥ ८३७ ॥

सार्थेशो धनदेवोऽथ सोपायनकरस्तदा ।
कुतोऽपि भीमभूपालं द्रष्टुकामः समागमत् ॥ ८३८ ॥

प्राकृतोपकृतेस्तत्तद्बन्धुवत्तस्य गौरवम् ।
कृतज्ञा कारयामास वैदर्भी भीमभूभुजा ॥ ८३९ ॥

ऋतुपर्णनृपं चन्द्रयशश्चन्द्रवतीयुतम् ।
दूतस्तं च वसन्तश्रीशेखरं भैम्यजूहबत् ॥ ८४० ॥

भीमभूमीभुजा नित्यमुपचारैर्नवैर्नवैः ।
ते कृतप्रीतयः सर्वे निन्युर्मासं मुहूर्तवत् ॥ ८४१ ॥

अन्येद्युः कश्चिदभ्येत्य भीमसंसदि कान्तिमान् ।
सुरः पश्यत्सु सर्वेषु वैदर्भीमित्यवोचत ।। ८४२ ॥

भैमि स्मरसि संबोध्य यं पुरा तापसेश्वरम् ।
प्रापयिष्यसि सम्यक्त्वप्रव्रज्यां च शुभोदयाम् ॥ ८४३ ।॥

सोऽहं तप्त्वा तपोऽप्युग्रं सौधर्मे धर्मभाग्मृतः ।
श्रीकेसरसुरोऽभूवं विमाने केसराहये ॥ ८४४ ॥

यस्त्वयाकृष्य मिथ्यात्वादर्हद्धर्मेऽस्मि रोपितः ।
तस्यैवैतत्फलं तन्मे त्वमत्यन्तोपकारिणी ॥ ८४५॥

इत्युक्त्वा तपनीयस्य सप्त कोटीर्विकीर्य सः ।
कृतज्ञचूडामाणिक्यं यथागतमगात्सुरः ॥ ८४६ ॥

वसन्तदधिपर्णर्तुपर्णा भीमोऽपरोऽप्यथ
अभ्यषिञ्चन्नलं राज्ये महीयांसो महीभृतः ॥ ८४७ ॥

ते नलादेशमासाद्य कभ्पयन्तोऽथ काश्यपीम् ।
सर्वाणि स्वस्वदेशेभ्यः सद्यः सैन्यान्यमेलयन् ॥ ८४८ ॥