पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/२४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६२
काव्यमाला।

ततो बिल्वकरण्डौ यौ दत्तौ निषधनाकिना।
तावाबध्य कटौ कुब्जः प्राजति स तुरंगमान् ॥ ७९७ ॥

कुब्जेन प्रेरितान्वीक्ष्य वाहाननिलरंहसः ।
दधिपर्णनरेन्द्रोऽथ विस्मयादित्यचिन्तयत् ॥ ७९८ ॥

अहो कश्चित्पुमानेष मानत्येति सर्वतः ।
अद्यापि रत्नगर्भेयं वहते नाम सान्वयम् ॥ ७९९ ॥

क्वचिद्वेगानिलोद्धूतपावारे पतिते भुवि ।
नृपोऽवोचत्पटीं गृह्णे ध्रियन्तां कुब्ज वाजिनः ॥ ८०० ॥

कुब्जोऽप्यूचे स्मितास्यस्तं यत्र ते पतिता पटी'।
ततः स्थानादतिक्रान्ता पञ्चविंशतियोजनी ।। ८०१॥

इमे हि मध्यमा एव वाहाश्चेत्तु स्युरुत्तमाः ।
पञ्चाशद्योजनीं राजलङ्घेरन्नियतं ततः ॥ ८०२ ॥

वृक्षमक्षाख्यमुदीक्ष्य क्वाप्यथो फलमांसलम् ।
कुब्जं राजाभ्यधादात्मकलोत्कर्षं विशेषयन् ॥ ८०३ ॥

फलानां भूरुहस्यास्य संख्यामगणयन्नपि ।
वेद्म्यहं कथयिष्यामि व्यावृत्तः कुब्ज ते क्षणात् ॥ ८०४ ॥

कुब्जोऽब्रवीदिदानीं त्वं कालक्षेपाद्विभेषि किम् ।
माभैषीरधुनैवैतां राजन्नाख्यातुमर्हसि ॥ ८०५ ॥

अष्टादश सहस्राणीत्युक्ते भूपतिना ततः ।
आहत्य मुष्टिना कुब्जस्तं फलौघमपातयत् ॥ ८०६॥

रथादुत्तीर्य भूपेन सूत्रिते गणनाविधौ ।
तावत्येवाभवत्संख्या न च न्यूना नचाधिका ॥ ८०७ ॥

भूभुजे याचिते विद्यां तुरङ्गहृदयात्मिकाम् ।
दत्त्वामादाददे संख्याविद्यां कुब्जोऽथ विस्मयात् ॥ ८०८ ॥

अथागादुदयप्रस्थे स्यन्दनोऽनूरुसारथिः ।
विदर्भनगरद्वारि कुब्जसूतो रथः पुनः ॥ ८०९ ॥