पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/२४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२६०
काव्यमाला।

   
अभूच भूधवाल्लब्धं यट्टङ्काभरणादिकम् ।
तत्प्रदायाखिलं कुब्जोऽनुमेने गमनाय तम् ॥ ७७१ ॥

सोऽथ विप्रो विदर्भायां समभ्येत्य विषादवान् ।
भैमीभूमीभुजोः कुब्जस्वरूपं तदचीकथत् ॥ ७७२ ॥

स्वयं रसवती तां च भुक्तामाख्याय स द्विजः ।
टङ्कलक्षादि तत्सर्वं कुब्जदत्तमदर्शयत् ॥ ७७३ ॥

सुंसुमारजनाख्याताः करीन्द्रदमनादिकाः ।
कुब्जस्य ताः कला राजप्रसादं च न्यवेदयत् ॥ ७७४ ॥

अथाह भीमभूस्तात त्वज्जामातैव स ध्रुवम् ।
कुब्जत्वमागमत्सैष नूनं केनापि हेतुना ॥ ७७५ ॥

यतः सा रसवत्येताः कलाः सेयमुदारता ।
त्रैलोक्येऽपि न कस्यापि तव जामातरं विना ॥ ७७६ ॥

तत्कथंचिदिहानीय वीक्ष्यते स खलु स्वयम् ।
इङ्गितैर्लक्षयिष्यामि यद्यस्ति नल एव सः ॥ ७७७ ॥

बभाषे भूपतिर्वत्से पुनर्गतपतेस्तव ।
कृत्वा स्वयंवरव्याज दधिपर्णो निमद्द्यते ॥ ७७८ ॥

निशम्यैतत्स कुब्जोऽपि तेन सार्धं समेष्यति ।
न खल्वात्मप्रियां यान्तीमन्यत्र सहते सुधीः ॥ ७७९ ॥

भूपः सोऽभूत्त्वदाकाङ्क्षी प्राक्तनेऽपि स्वयंवरे ।
त्वया वृते नले त्वेष विलक्षोऽभूद्भृशं तदा ॥ ७८० ॥

तदासन्नदिनाहूतं तूर्णमागन्तुमक्षमम् ।
ताम्यन्तं त्वत्कृते काममारोप्य जविनं रथम् ॥ ७८१ ॥

तं चेदानेष्यते कुजः स ध्रुवं नल एव तत् ।
हृदयं यस्तुरगाणां वेत्ति नान्यो विनामुना ॥ ७८२ ॥

इत्यालोच्य वितीर्याथ शिक्षामक्षामधीगुणः ।
भूभुजे दधिपर्णाय दूतं प्रातिष्ठिपन्नृपः ।। ७८३ ॥