पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/२४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२५९
पाण्डवचरितम् ।

अन्यदा दधिपर्णस्य भूपतेः स्नेहवर्त्मना ।
दूतस्तत्र ययौ धीमान्सँसुमारपुरादितः ॥ ७५८ ॥

स जातु वार्ताप्रस्तावेऽकथयद्भीमभूभुजः।
यथासत्स्वामिनः पार्श्वे प्राप्तोऽस्ति नलसूपकृत् ॥ ७५९ ॥

स वेत्ति सूर्यपाकाया रसवत्या विधिं सुधीः ।
वक्ति चास्यामुपाध्यायो बभूव नल एव मे ॥ ७६० ॥

श्रुत्वैतल्लोकतो भैमी भूपमेत्य व्यजिज्ञपत् ।
न तां रसवतीं तात वेत्ति कश्चिन्नलं विना ॥७६१॥

तत्प्रेक्ष्य कंचिज्जानीहि किंरूपः किं नलश्च सः ।
अवश्यं गोपितात्मैवं नल एक स वल्लभः ॥ ७६२ ॥

मामाहूय ततो दत्त्वा शिक्षा प्रैषीद्विदर्भराट् ।
क्रमादत्रैत्य भद्रा त्वां पृच्छन्पृच्छन्निहागमम् ॥ ७६३ ॥

एवंरूपं च वीक्ष्य त्वां विषादादित्यचिन्तयम् ।
काचे मरकतम्रान्तिवैदर्भ्यः किमभूदियम् ॥ ७६४ ॥

नलः क्व दिविषद्देश्यः कुब्जश्चाव्यक्तसूपकृत् ।
क्वः सर्षपः क्व मेरुश्च व खद्योतः क्व चार्यमा ॥ ७६५ ॥

तथाप्येनं परीक्षिष्ये विचिन्त्येति पठंस्त्वया ।
नल क्षेपमयौ श्लोकावापृच्छेऽहं कथामिमाम् ॥ ७६६ ॥

तदस्तु स्वस्ति ते यामि व्यावृत्य नगरं निजम् ।
यथादृष्टं च वैदया॑स्त्वत्स्वरूपं निवेदयेः ॥ ७६७ ॥

भैमीस्मरणसंभूतं कथंचन ततः सुधीः ।
बाष्पपूरं निरुन्धानः कुब्जः कुशलमब्रवीत् ॥ ७६८ ॥

पूज्योऽसि कथयन् विप्र पुण्यपात्रकथाभिमाम् ।
तदागच्छ ममावासं गृहाण मम सत्कृतिम् ॥ ७६.९ ॥

इत्युदीर्य द्विजन्मानमानीय स गृहे निजे ।
रसवत्याः तया सूर्यपाकया तमभोजयत् ।। ७७०॥