पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/२४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२४३
काव्यमाला।

   
क्रन्दद्भिरनु तां लोकैः शोकाद्वैतं तदाखिले ।
जातं राजकुले नेतुरनुगा ह्यनुजीविनः ॥ ७१९ ॥

ततः स विप्रः क्षुत्क्षामकुक्षिः क्षितिपमन्दिरात् ।
निर्गत्य भोजनाकाङ्क्षिः दानशालां जगाम ताम् ॥ ७२० ॥

तत्र सोऽधिकृतां प्रेक्ष्य भैमीमुत्फुल्ललोचनः ।
प्रधाव्य रभसा तस्याः पादपङ्केरुहेऽपतत् ॥ ७२१ ॥

ऊचे च दिष्ट्या दृष्टासि भ्राम्यता भुवनं मया ।
अद्य स्वस्त्यस्तु सर्वेषां भवजीवितजीविनाम् ॥ ७२२ ।

अथैत्य स जवाञ्चन्द्रयशोदेवीमवर्धयत् ।
तच्छोकाश्रुपदेऽभूवन्क्षणात्प्रीत्यश्रुविषुषः ।। ७२३ ॥

सत्रागारमुपेत्याथ सा मुदालिङ्ग्य भीमजाम् ।
साश्रुरूचे बलिस्तुभ्यं क्रियेऽस्यां चावतारणम् ॥ ७२४ ॥

हा हा धिग्मामियत्कालं न मयाप्युपलक्षिता ।
जगद्विलक्षणापि त्वमेतैर्लोकंपृणैर्गुणैः ॥ ७२५ ॥

वञ्चितास्मि कथं वत्से त्वया कृत्वानुगोपनम् ।
मातृस्वसापि मातेव तत्पुरः का खलु त्रपा ॥ ७२६ ॥

किं त्यक्तासि नलेन त्वं नलस्त्यक्तस्त्वयाथवा ।
यदि वा न पर्ति जातु त्यजसि त्वं पतिव्रता ॥ ७२७ ॥

विडम्बितसहस्रांशुर्ललाटतिलकः क्व ते ।
सेति मार्ष्टि स्म तद्भालं सनिष्ठीवेन पाणिना ॥ ७२८ ॥

प्रादुरास ततस्तस्याः स भालतिलकः क्षणात् ।
यस्यान्तेवासितामन्ये तेजांसि दधतेऽन्वहम् ॥ ७२९ ॥

तां धृत्वाथ करे नीत्वा वेश्मन्युर्वीशवल्लभा ।
स्वयमस्नापयद्गन्धवारिभिर्देवतामिव ।। ७३०॥

परिधान्य दुकूले च ज्योत्स्वासब्रह्मचारिणी ।
तैस्तैः प्रेमोपचारैस्तां राज्ञी काममनन्दयत् ॥ ७३१ ॥