पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/२३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२५०
काव्यमाला।

इत्याकुलमनास्तस्मिन्नश्रुपूराविलेक्षणा ।
ययौ तस्थावुपाविक्षद्व्यलुठद्व्यलपञ्च सा ॥ ६४१ ॥

भ्रमन्तीं च वने काचित्तामपश्यन्निशाचरी।
मा स्म गा भक्षयिष्यामि भवन्तीमित्युवाच च ॥ ६४२ ॥

तां वीक्ष्य भयसंभ्रान्ता बभाषे भीमनन्दिनी
नलादन्यं पुमांसं चेत्स्पृशत्यपि न मे मनः ॥ ६४३ ॥

ममार्हन्नेव देवश्चेद्गुरवश्चेत्सुसाधवः ।
रतिश्चेज्जैनतत्त्वे च हताशा भव राक्षसि ॥ ६४४ ॥ (युग्मम्)

इति तस्या गिरामन्त्रवाचेव च्युतविक्रमा ।
ययौ नक्तंचरी नत्वा सत्यो हि दुरतिक्रमः ॥ ६४५ ॥

ततो दत्तजलभ्रान्तिमूर्मिमत्सिकताचिताम् ।
क्वचिद्गिरिनदीं कांचिदुदयन्ती जगाद सा ॥ ६४६ ॥

तामनम्भसमालोक्य सा जगाद तृषार्दिता ।
मनो मे यदि सम्यक्त्वसौरभ्यसुरभीकृतम् ॥ ६४७॥

तदेतस्यां पयः प्रादुरस्तु द्रागमृतोपमम् ।
इत्युक्त्वा पार्ष्णिना स्वैरं महीतलमताडयत् ॥६४८॥ (युग्मम्)

साभूत्कूलंकषान्वर्थनामाम्भोभिस्तदुत्थितैः ।
स्नात्वा पीत्वा पयश्चास्यां भैमी निन्ये परिश्रमम् ॥ ६४९ ॥

पुरो यान्ती च सा खिन्ना न्यग्रोधस्य तले क्वचित् ।
निविष्टा पथिकैः कैश्चित्सार्थायातैरभाषत ॥ ६५० ॥

भद्रे कासि किमत्रासि वटस्याधो निषेदुषी ।
ईदृगद्वैतरूपा त्वं काचिन्न वटदेवता ॥ ६५१ ॥

अथाह भीमभूर्नाहं देवता किंतु मानुषी ।
वणिक्पुत्री समं पत्या यान्त्यभूवं पितुर्गृहे ॥ ६५२ ॥

सुप्तामेकाकिनीमत्र मां संत्यज्य पतिर्ययौ ।
बान्धवा गमयध्वं मां तत्तापसपुराध्वना ॥ ६५३ ॥