पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/२३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२४३
पाण्डवचरितम् ।


ततो मुशलधाराभिः पुष्करावर्तकोपमाः।
विरामरहितं मेघास्त्रिरात्रं ववृषुस्तराम् ॥ ५५० ॥

तदा शकटसंचारभङ्गमञ्जरितोर्जितः ।
चिक्रीड विपिने पङ्कः क्षोभयन्पथिकव्रजान् ॥ ५५१ ॥

चिरावस्थानमाशङ्कय सार्थस्य नलवल्लभा ।
केनाप्यविदिता वृष्टिपर्यन्ते निर्ययौ ततः ॥ ५५२ ॥

यान्तीव पुरतो रौद्रमञ्जनागिरिसोदरम् ।
फेत्कारनिर्यदास्योल्का निरस्तसतडिद्धनम् ॥ ५५३ ॥

नरास्थिभूषणं दंष्ट्राकरालं कर्ति(र्त्रि)काकरम् ।
साक्षादिव यमं भैमी कंचिदैक्षिष्ट राक्षसम् ॥ ५५४ ॥

(युग्मम्)
भाषते स्म स तां भीतिकल्लोलतरलेक्षणाम् ।
क्व यासि भक्षयिष्यामि त्वामेष क्षुधितश्चिरात् ॥ ५५५ ॥

ततः सौष्ठवमालम्व्य जगाद नलगेहिनी ।
निशम्य मद्गिरं कुर्यास्तुभ्यं यदिह रोचते ॥ ५५६ ॥

न नाम परमार्हत्याः किंचिन्मृत्युभयं मम ।
मृत्योर्हि संभृतानेकसुकृता नाभिशङ्कते ॥ ५५७ ॥

किंतु मामनिशं पूतमानसां परमेष्ठिभिः ।
पराङ्गनां स्पृशन्नेव भद्र यास्यसि भस्मसात् ॥ ५५८ ॥

राक्षसस्तामवष्टम्भमयीमाकर्ण्य तद्विरम् ।
ऊचे कल्याणि तुष्टोऽसि सत्त्वेनैव तवामुना ॥ ५५९ ॥

ब्रूहि तत्किमिदानीं ते मनोभीष्टं करोम्यहम् ।
निशम्येति वचस्तस्य कुण्डिनेशसुतावदत् ।। ५६० ॥

यदि तुष्टोऽसि मे सत्यं राक्षस व्यन्तरेश्वर ।
तदाचक्ष्व कदा भावी पत्या मम समागमः ॥ ५६१॥

विलोक्य विधिना सद्यस्तामवोचन्निशाचरः।
अतिक्रम्य परित्यागदिनाद्द्वादशहायनीम् ॥.५६२,॥