पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/२२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२४०
काव्यमाला।


यदहं पत्रलं बद्धमञ्जरीकं सषट्पदम् ।
फलितं चूतमारूढा तत्फलान्यादमिच्छया ॥ ५११ ॥

तं चाभ्येत्य करी कश्चिदकस्मादुदमूलयत् ।
अहं च तत्परिभ्रष्टा पतितास्मि भुवस्तले ॥ ५१२ ॥

ततो जागरिता प्रातरदृष्ट्वा प्रियमन्तिके ।
दिक्षु चक्षुर्निचिक्षेप भीमभूर्भयविक्लवा ।। ५१३ ॥

अचिन्तयच्च मे दैवमद्यापि प्रातिलोमिकम् ।
व्यालाकीर्णे वनान्तेऽस्मिन्मां प्रियोऽपि यदत्यजत् ॥ ५१४ ॥

यद्वा सलिलमानेतुमास्यक्षालनहेतवे ।
प्रयातः सरसि क्वापि प्राणेशो मे भविष्यति ।। ५१५॥

रन्तुं विद्याधरी काचित्कापि वा वनदेवता ।
सुभगं तमपाहार्षीत्सोऽन्यथा न जहाति माम् ॥ ५१६ ॥

नर्मणा वा किमस्त्येष तत्यन्तरितः स्थितः ।
तत्तमुत्थाय पश्यामि क्व गन्तासि ममाग्रतः ॥ ५१७ ॥

इत्युत्थाय प्रतिक्षोणीरुहमुद्रीक्षणादपि ।
निजं कान्तमपश्यन्ती रुदत्युच्चैर्जगाद सा ॥ ५१८ ॥

एह्येहि त्वरितं नाथ याति मे हृदयं द्विधा ।
चिरं न खलु नार्मापि शर्मदं भवति क्वचित् ॥ ५१९ ॥

इत्यायैर्वचनैः कान्ते दृग्गोचरमनीयुषि ।
विदर्भदुहितेत्यन्तः स्वमस्यार्थं व्यचारयत् ॥ ५२० ॥

यञ्चूतो मत्प्रियः सोऽयं राज्यं पुष्पफलादिकम् ।
तद्भोगश्च फलास्वादः षट्पदाश्च परिच्छदः ॥ ५२१ ॥

मूलादुन्मूलनं यच्च चूतस्य च न दन्तिना ।
मदीयप्रेयसो राज्याद्भ्रंशनं कूबरेण तत् ॥ ५२२ ॥

यच्चाहं पतिता चूतात्प्रियेण विरहः स मे ।
तत्स्वप्नेनामुना नूनं वल्लभो दुर्लभोऽधुना ॥ ५२३ ॥