पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/२२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२३९
पाण्डवचरितम् ।


धूतं मद्यं मृगव्यं च तावति प्रतिषिध्यताम् ।
इत्यस्य वचसा सर्वं तच्चकार धराधवः ॥ ४९८ ॥

तत्रैव परमं राजप्रसादमधिजग्मुषः ।
वसतस्तस्य भूयांसि हायनान्यतिचक्रमुः ।। ४९९ ॥

परेद्यवि सरस्तीरे द्रुभच्छायां निषेदुषः ।
कुब्जस्याभ्यर्णमभ्येत्य विप्रः कश्चिदुपाविशत् ॥ ५०० ॥

सोऽथ सर्वाङ्गमालोक्य कुब्जामाकूणितेक्षणः ।
जगौ श्लोकद्वयीमेतां नलनिन्दाविशारदाम् ॥ ५०१॥

निघृणानामलज्जालां निःसत्त्वानां दुरात्मनाम् ।
नलखैव धुरीणत्वं सुप्तां तत्याज यः प्रियाम् ॥ ५०२ ॥

सुप्तामेकाकिनीं स्निग्धां विस्त्रब्धां दयितां सतीम् ।
गतः किं न वने त्यक्तुकाम एव न भस्मसात् ॥ ५०३ ॥

इत्युपश्रुत्य तद्गीतं कुब्जः पर्यश्रुलोचनः ।
तमभ्यधादहो रक्तकण्ठोऽसि द्विजसत्तम ॥ ५०४ ॥

गीतेनानेन ते काममुद्यत्करुणवीचिना।
ममाप्येताः कृताः पश्य चक्षुषोरश्रुविक्षुषः ॥ ५०५ ॥

ततः कथय कोऽसि त्वं कुतश्चागम्यतेऽधुना ।
दुर्धियश्च नलस्यायमुदन्तः क त्वया श्रुतः॥ ५०६ ॥

सोऽप्याख्यत्कुशलाख्योऽस्मि कुण्डिनाञ्चाहमागमम् ।
तत्राश्रौषमिमां सर्वां नलभूमीपतेः कथाम् ॥ ५०७ ॥

कुब्जो ऽभ्यधात्ततो विभ्रद्विकाशविशदे दृशौ ।
श्रुता ब्रह्मन्पुराणीयं भैमीत्यागावधिः कथा ॥ ५०८.॥

ततः परं यदातेने भीमभूर्विरहातुरा।
तत्वरूपं समस्तं मे निवेदयितुमर्हसि ॥ ५०९ ॥

जगादाथ द्विजो भैमीं परित्यज्य गते नले।
निशि प्रभातप्रायायां स्वममेवं ददर्श सा ॥ ५१०॥