पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/२२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२३७
पाण्डवचरितम् ।


जातु पुच्छान्तमालम्ब्य चक्रवद्भ्रमयन्मुहुः ।
नलस्तैस्तैः प्रकारस्तं खेदयामास दन्तिनम् ॥ ४७२ ॥

हर्षकोलाहलैर्जातु जातु हाहारवोत्करैः।
जनानां पश्यतामासीच्छब्दाद्वैतं पुरे तदा ॥ ४७३ ॥

खिन्नस्यापि भृशं कोपात्कुञ्जरस्यानुधावतः।
क्षिपति स्म पुरः क्षिप्रमुत्तरीयपटं नलः ॥ ४७४ ॥

पपात पुरतो रूपमित्यस्मिन्परिणामिनः ।
नताय वपुषः स्कन्धमास्कन्दद्दन्तिनो नलः ॥ ४७५ ॥

ततः कण्ठवरत्रायां प्रक्षिप्तचरणौ नलः
आस्फालयन्करैः कुम्भे कुञ्जरं तमसान्त्वयत् ॥ ४७६ ॥

पश्चादेत्य प्रतीकारैरादायोल्लालितां शृणिम् ।
नलो दन्तावलेन्द्र तमन्वालानमचालयत् ॥ ४७७ ॥

मायाकुब्जः सुरः कोऽपि किमेष भुवमागतः।
यश्चक्रे हस्तिमल्लस्य प्रतिमल्लमिमं वशे ॥ ४७८ ॥

इत्यन्तर्विमितो राजा स्वयमारुह्य गोपुरम् ।
रनदाम न्यधात्कण्ठे तस्वाधस्तादुपेयुषः ॥ ४७९ ॥

कुब्जावदानमेदखिहर्षबाष्पायितेक्षणाः ।
बभूवुर्जयशब्दैकमुखराः सर्वतः प्रजाः ॥ ४८० ॥

श्रमानुत्तानमालाने गजमाकलयन्नलः।
सर्वपौरजनानां तु प्रमोदमधिमानसम् ॥ ४८१ ॥

ततः सलीलमुत्तीर्य कुलः कक्षावरत्रया ।
अभ्यर्णे दधिपर्णस्य वयस्यवदुपाविशत् ॥ ४८२ ॥

अलंकारान्दुकूलानि तुष्टस्तमै ददौ नृपः ।
स्वान्तिकेऽस्थापयच्चैनं गौरवेण गरीयसा ॥ १८३ ॥

अभ्यधात्सविधासीनं तमन्येधुर्महीपतिः ।
कलेयं गजशिक्षायां कुब्ज कौतस्कुती तव ॥ ४८४ ॥