तेनेत्युक्ते भुजङ्गेन नलः कारुण्यनीरधिः ।
अन्तर्लतावितानं स्वमुत्तरीयमलम्बयत् ॥ ४३४ ॥
से भोगी वपुषा वृक्षं वल्लीव तदवेष्टयत् ।
उदपानाद्वरत्रावच्चकर्षोर्ध्वं च नैषधिः ॥ ४३५ ॥
भूतले तृणकाष्ठादिरचिते तममुञ्चत ।
यावदुर्वीपतिस्तावद्दृश्यते स्स करेऽमुना ॥ ४३६ ॥
नलः क्षोणीतले पाणिमाच्छोट्य तमपातयत् ।
विषादाच्चाब्रवीत्सेयं तव प्रत्युपकारिता ॥ ४३७ ॥,
यद्वा हन्यान्मृगारिस्तं स एवोन्मीलयेदृशौ ।
य एव पाययेत्क्षीरं त्वज्जात्यापि स दश्यते ॥ ४३८ ॥
इत्यादि निगदन्नेव तदीयविषवैभवात् ।
अधिज्यधनुराकारं कलयामासिवानलः ॥ ४३९ ॥
तया कुब्जतयात्यन्तं राजा वैराग्यमीयिवान् ।
जीवितव्यानपेक्षोऽभूह्व्रतादानमनाः क्षणात् ॥ ४४०॥
ततोऽपश्यदहिस्थाने नलः कन्दलितप्रभम् ।
तमःपद इव द्योतं दिव्यमूर्ति पुरःसरम् ॥ ४४१ ॥
जल्पति स्म स भूपालं कथं वत्स विषीदसि ।
हितैकबद्धहेवाकस्तवास्मि निषधः पिता ॥ ४४२ ॥
तदा व्रतमुरीकृत्य तपस्तप्त्वातिदुतरम् ।
कृतानशनकर्मान्ते ब्रह्मलोके सुरोऽभवम् ।। ४४३ ॥
परिज्ञायावधिज्ञानादिमं ते व्यसनोदयम् ।
आयातोऽहमिदं सर्वं मम मायाविजृम्भितम् ॥ ४४४ ॥
तदात्मनीनमेवैतद्विद्धि वैरूप्यमात्मनः ।
अनेनानुपलक्ष्यं त्वां नोपद्रोष्यन्ति शत्रवः ॥ ४४५ ॥
अधुनैव व्रतादानस्पृहामपि हि मा कृथाः ।
भोक्तव्यमेव तेऽद्यापि तावदेवावनीतलम् ॥ ४४६ ॥
१. वरत्रा चर्ममयरज्जुः