पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/२१७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
काव्यमाला।


तद्यामेतां परित्यज्य वनेऽस्मिन्सुखशायिनीम् ।
प्रातर्गच्छेदियं वेश्म पितुर्वा कूबरस्य वा ॥ ३८२ ॥

इत्यालोचयतस्तस्य निद्राति स्म विदर्भजा
मार्गसंपातखिन्नानां निद्रा ह्यभ्यर्णवर्तिनी ॥ ३८३ ॥

ततः शनैः परीरम्भमुद्रां निर्भिध नैषधिः
क्रष्टुकामो निजं भैमीभुजसंवलितं भुजम् ॥ ३८४ ॥

गाढविश्रम्भसंरम्भादतिस्वच्छन्दशायिनीम् ।
तामजागरयन्नूचे नीचकैर्निषधापतिः ॥ ३८५ ॥ (युग्मम् )

मुञ्च मुच्च नलं मुग्धे चण्डालं कुलपांसनम् ।
स्पर्शेनाप्यस्य पापस्य पातकैरुपलिप्यसे ।। ३८६ ॥

सुप्तामेकाकिनीमेव वने विश्वस्तमानसाम् ।
प्रेमामृतस्त्रवन्तीं यस्त्वामपि त्यक्तुमिच्छति ॥ ३८७ ॥

कल्पद्रुमभ्रमान्मुग्धे श्रितासि विषपादपम् ।
तदवाप्नुहि निःशेषं फलं तस्यात्मकर्मणः ॥ ३८८ ॥

धिग्धातः कुर्वता मूढ वैदर्भीनलसंगमम् ।
हंसीकाकोलयोः कोऽयं त्वयाकारि समागमः ॥ ३८९ ॥

यदि वा सर्वदैवासि त्वमनौचित्ययोगकृत् ।
अमेध्यदोहदश्चके केतक्या कथमन्यथा ॥ ३९० ॥

इत्याकृष्य भुजं भूपो मन्दं मन्दं नलोऽवदत् ।
देवीक्रान्तमिदं वासश्छेत्तुं बाहो प्रसीद मे ॥ ३९१ ॥

यद्वा पूर्व त्वमेवास्या व्याप्तोऽसि करग्रहे ।
जातस्त्वमेव सर्वाङ्गसौरभ्यप्रथमातिथिः ॥ ३९२ ॥

तेन मन्येऽहमेतस्या दाक्षिण्यं दक्षिणस्य ते ।
सदा सध्रीचि किं नाम नलेऽसि त्वमदक्षिणः ॥ ३९३ ॥

तद्विधायानुरोधं त्वमसिधेनुमलंकुरु ।
क्षुरिकायामिति स्वैरं क्षितीशः पाणिमक्षिपत् ।। ३९४ ॥