पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/२१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२२६
काव्यमाला।

    
    
विषसाद जनः सर्वः कूबरस्तु मुदं ययौ ।
दुःखी ध्वान्तो हि लोकोऽयमुलूकः पुनरुन्मदः ॥ ३३० ॥

आकर्ण्य लोकहाकारं कोलाहलमुदित्वरम् ।
अभ्यधान्नलमभ्येत्य सभयं भीमनन्दिनी ॥ ३३१ ॥

खामिन्कोऽयं विपर्यासः संप्रत्यभिनवस्तव ।
विनोदमात्रमेवैतद्दुरोदरमुदीरितम् ॥ ३३२ ॥

त्वादृशा अपि चेदमिन्मज्जेयुर्व्यसनार्णवे ।
ततस्तारयिता कः स्यान्मज्जन्तां मन्दमेधसाम् ॥ ३३३ ॥

प्रतिपक्ष इवाक्षोऽयं तवाद्य प्रातिलोमिकः ।
इयत्यपि गते तस्मादपाकुरु दुरोदरम् ॥ ३३४ ॥

अभिषिञ्च स्वयं राज्ये भ्रातरं कूबरं वरम् ।
प्रसह्य हृतराज्यस्तु बाढमुत्प्रासयिष्यसे ॥ ३३५ ॥

गिरमित्यादिकामुच्चैरुच्यमानां नलस्तया ।
न विन्दति स्म गम्भीर[१]वेदीव निशितां शृणिम् ॥ ३३६ ॥

अथातपुरुषैर्भैमीनिदेशाज्जगदे नलः
वृथैव पृथिवी किंतु हार्यते कृच्छ्रतोऽर्जिता ।। ३३७ ॥

किं न द्यूतं परित्यज्य जीवयस्यनुजीविनः ।
शुष्के हि सरसि ग्रीष्मे कियन्नन्दन्ति दर्दुराः ॥ ३३८ ॥

इत्येषामप्यनादृत्य वचश्चिक्रीड नैषधिः
विपर्येति भृशं पुंसां बुद्धिः क्रुद्धे हि वेधसि ॥ ३३९ ॥

नलस्ततोऽवरोधेन समं भैमीमहारयत् ।
तारकाभिः सह प्रातः कौमुदीमिव चन्द्रमाः ॥ ३४०॥

हारयामास भूपालः शरीरामरणान्यपि ।
वसन्तव्यत्ययारम्भे कुसुमानीव चम्पकः ।। ३४१ ॥

जगर्ज जगतीनाथः श्रीलाभे कूबरोऽधिकम् ।
दुर्धराः सरितामोघाः प्राप्ता ह्यम्भोधिसंपदः ।। ३४२ ॥



१. दुर्धरहस्तीव।