पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/२१०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२२३
पाण्डवचरितम् ।

    
त्रपाबन्दिग्रहात्काममाकर्षन्ती विदर्भजाम् ।
आगात्तमी ततः सैन्यैः सखीव हृदयंगमा ॥ २९१ ॥

नवं नलकरस्पर्शचुम्बनालिङ्गनादिकम् ।
वेत्रीव दर्शयन्भैम्या जजृम्भे तिमिरोत्करः ॥ २९२ ॥

तथापि पथि नावासानग्रहीनिषधापतिः।
स्वपुरं प्रति लोकानामुत्कण्ठा हि बलीयसी ॥ २९३ ॥

नलेन दमयन्त्या च ब्रजद्भ्यामथ वर्त्मनि ।
कर्णामृतमिवाश्रावि रोलम्बतुमुलध्वनिः ॥ २९४ ॥

नलं भैमी बभाषेऽथ नाथ नात्र विभाव्यते ।
रम्या गुमावलिः काचित्तत्किं कोलाहलोऽलिनाम् ॥ २९५ ॥

रम्भोरु तिमिरैः किंचित्कारणं नावगम्यते ।
निवेदिते नलेनेति भैमी भालं खमामृशत् ॥ २९६ ॥

तदैवाविरभूत्तस्यास्तिग्मदीधितिबान्धवः ।
त्रासयन्सैन्यलोकस्य लोचने तिलकोऽलिके ॥ २९७ ॥

ततोऽपृच्छन्नलस्तन्वि किमेतदिति विस्मितः।
साप्युवाच मम स्वामिञ्जन्मसब्रह्मचार्यसौ ॥ २९८ ॥

तदुद्धतेन मत्तालिकुलदंशस्तु(स्नु)ता सृजम् ।
तौ मुनि कंचिदेक्षेतां दम्पती प्रतिमास्थितम् ॥ २९९ ॥

गण्डकण्डूमपाकर्तुं केनचिद्वनदन्तिना ।
घट्टितोऽयं स्फुटं ध्यानस्थेमवान्स्थाणुशङ्कया ॥ ३०० ॥

तदीयमदसंसक्तद्विरेफैरप्यनुद्रुतः ।
समाधेर्नायमभ्रश्यत्तद्वहत्यस्य कस्तुलाम् ॥ ३०१ ॥

इत्यन्तस्तर्कयन्तौ तमादाय निरुपद्रवम् ।
उल्लसत्प्रीतिकल्लोलविक्लवौ तौ प्रणेमतुः ॥ ३०२ ॥
(त्रिभिर्विशेषकम् )
प्रतिमामुपसंहृत्य मुहूर्तेन महामनाः।
जगाद स मुनिर्ज्ञानी धर्मस्थेमकरी गिरम् ॥ ३०३ ॥