पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/२०९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२२२
काव्यमाला ।

उल्लङ्घय भूभृतः सर्वान्वैदर्भीसरिताश्रिते ।
नलाम्भोधौ बभूवुस्ते श्यामास्तत्सैवलैरिव ॥ २७८ ॥

भीमस्य निषधस्थापि स्वजनप्रीतिगङ्गया।
द्विषदप्रीतिकालिन्द्या तत्प्रयागायितं सदः ॥ २७९ ॥

कोशलेश्वरभीमाभ्यां यथामनसमुच्चकैः ।
ओरभे नलवैदर्भ्योर्विवाहमहिमोत्सवः ॥ २८० ॥

अतःप्रभृति जन्मान्तं प्राणा अपि ममैव ते ।
इतीव दक्षिणं पाणिमाददातामिमौ मिथः ॥ २८१ ॥

मन्ये विलीय निर्गत्य पाणिपीडनपर्वणि ।
तयोरगच्छतामैक्यं मनसी स्वेदकैतवात् ॥ २८२ ॥

प्रदक्षिणीकृते वह्नौ हस्तमोचनपर्वणि ।
भीमो नलाय दत्ते म रलाश्वेभादिकं बहु ॥ २८३ ॥

निषधापतिरादाय सवधूकमथात्मजम् ।
भीमेनानुगतो हर्षादचलत्कोशलां प्रति ॥ २८४ ॥

कांचिदप्यवनीं गत्वा निदेशात्कोशलेशितुः ।
निवृत्तः कुण्डिनाधीशस्तनूजामन्वशादिति ॥ २८५ ॥

व्यसनेऽपि भवेर्वत्से पतिवर्त्मानुवर्तिनी ।
पतिमेव पर प्राहुर्दैवतं हि मृगीदृशाम् ॥ २८६ ॥

प्रतिगृह्य नमन्मौलिरनुशिष्टिमिमां पितुः ।
नलस्य रथमारुह्य प्रतस्थे भीमनन्दिनी ॥ २८७ ॥

नलः कान्तावपुःस्पर्शलालसः किल वर्त्मनि ।
स्यन्दनं सादिनावन्यामुद्धातिन्यामनाययत् ॥ २८८ ॥

ज्ञातेऽप्यङ्गादिकप्रश्ने गद्गदे तद्वचःप्रियः ।
किं ब्रवीषीति भूयोऽपि भैमीं वक्तिम नैषधिः ॥ २८९

अनुरागो नले भैम्या दिनान्ते वा ममाधिकः ।
इति ज्ञातुमिवागच्छत्संध्या सैन्यस्य गच्छतः ।। २९० ॥