पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/२०८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । २२१ एष विद्विषतां लुप्तसप्ताङ्गो वङ्गभूपतिः । वारितारिकुरङ्गाक्षीशृङ्गारोऽयं कलिङ्गराट् ।। २६५ ।। असौ भग्नरिपुस्त्रैणकङ्कणः कुङ्कणेश्वरः । शत्रुवित्रासनाढ्यैकनयेऽयं लाटनायकः ॥ २६६ ॥ प्रत्यर्थिप्रार्थितप्राणत्राणोऽयं हूणदैवतम् । असौ जनितविद्वेषिडिम्बः कम्बोजभूमिभुक् ॥ २६७ ॥ इत्थमस्थास्तुमेतेषु सिन्दुवारेष्विवालिनीम् । दृशमुद्वीक्ष्य वैदर्भ्याः पुनीर्दौवारिकी जगौ ॥ २६८ ॥ देवि पश्य पुरः सोऽयं निषधाया विशेषकः । विवेकविक्रमन्यायनिधिर्निषधभूपतिः ॥ २६९ ॥ एतौ च पुरतोऽमुष्य तनयौ नलकूबरौ । शम्भोरसूययेवाभूद्विमूर्तिरिव मन्मथः ॥ २७० ।। सारिणीवारिवच्चक्षुस्तस्याः सिञ्चन्नृपद्रुमान् । पपात बृहदावाले शाखिनीव नले चिरम् ॥ २७१ ॥ उच्चरन्प्रौढरोमाञ्चमथ सैतदचिन्तयत् । देवः किमागतः कामः स्वयमेव स्वयंवरम् ॥ २७२ ॥ अनेकविरहिस्त्रैणहत्यापातकिनोऽथवा । कुतस्तस्येदृशी मूर्तिर्मालतीदलकोमला ॥ २७३ ॥ प्रकामकमनीयेऽस्मिन्निर्मितेऽम्भोजभूर्धुवम् । अनुरूपगुणग्रामनिर्माणे विक्लवोऽभवत् ।। २७४ ॥ नमोऽस्तु विधये तस्मिन्नोपकारो ममापरः । कृतार्थयितुकामेन येन मामयमाददे ॥२७५ ॥ चिन्तयन्तीदमानन्दाद्दमयन्ती सवेपथुः । वरमालां निचिक्षेप नलस्य गलकन्दले ॥ २७६ ॥ तत्पाणिनखमाणिक्यमयूखैररुणीकृता । गुम्फितेव बभौ पुष्पैः सानुरागं द्रुमोद्भवैः ॥ २७७ ॥