पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/२०७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२२० काव्यमाला। कुण्डिनेशनिदेशेन नेदीयःकेलिकानने । निवासानग्रहीत्प्रीत्या महीपतिपताकिनी ॥ २५२ ।। यथौचित्यधृताकल्पास्तेऽथ कल्पद्रुमा इव । मञ्चानुच्चैरलंचक्रुः क्षोणिशक्राः स्वयंवरे ॥ २५३ ॥ कोशलापतिरप्येकं माणिक्यमयमद्भुतम् । कुमाराभ्यां समारोहन्मञ्चमुच्चूलशालिनम् ॥ २५४ ॥ क्षत्रियाणामगाल्लक्ष्मीनक्षत्राणामिव क्षणात् । विश्वभास्वत्युपारूढे मञ्चपूर्वाचलं नले ॥ २५५ ॥ नवपर्युप्तवैडूर्यमौक्तिकप्रायभूषणा । मधुव्रतकुलाकीर्णपुष्पास्तीर्णेव माधवी ॥ २५६ ।। होत्फुल्लचलच्चेटीकृतालोकध्वनिस्ततः । लक्ष्मीर्मूतव वैदर्भी विवेशान्तःस्वयंवरम् ॥ २५७॥ (युग्मम्) इमां रतिशचीलक्ष्मीपार्वतीरूपजित्वरीम् । निर्याय महतो जज्ञे निर्वादस्य पदं विधिः ॥ २५८ ॥ स्मरेन्द्रमुरजित्कण्ठेकाललीलाजयी न यत् । अनेन निर्ममे कश्चिदित्यतर्कि जनस्तदा ॥२५९॥ (युग्मम्) मनोभिः सर्वभूपानां वितन्वद्भिर्गतागतम् । अन्तराध्वा तदङ्गानां तदा पाणिंधमोऽभवत् ॥ २६० ॥ शृङ्गाररसपूर्णायां केदारभुवि शालिवत् । जातः स्तम्बकरिस्तस्यामभिलाषो महीभुजाम् ॥ २६१ ।। तां वीक्ष्य पुण्यतारुण्यां नलोऽप्यन्तरचिन्तयत् । कात्यायन्या तपस्वी धिग्मृडः कामं विडम्बितः ।। २६२ ॥ अथ तस्याः सरोद्रेकसूत्रितानेकविभ्रमान् । नामग्राहं महीपालान्दर्शयामास वेत्रिणी ॥२६३ ॥ देवि तैस्तैर्गुणैः सोऽयमगाधो मगधाधिपः। वपुर्लावण्यकल्लोलैर्जितानङ्गोऽयमङ्गराट् ।। २६४ ॥