पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/२०६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । २१९ तस्य निःसीमरूपश्रीर्दमयन्तीति विश्रुता । तनयास्ति जगन्नेत्रकुमुदानन्दकौमुदी ॥ २३९ ॥ नेत्रपीयूषवापीं तां निर्माय नियतं विधिः । स एवायमुतान्योऽस्मि विस्मयादित्यचिन्तयत् ।। २४०॥ हित्वा जलाशयान्हंसाः कैलाससरसीमिव । गुणाः स्वयं श्रयन्ति स संश्रयस्पृहयैव ताम् ।। २४१ ॥ तनोति नित्यमद्यापि देवी वाचामधीश्वरी। अक्षावलिच्छलात्तस्या गुणौघगणनामिव ।। २४२ ।। शश्चन्मनसि कुर्वाणा केवलं धर्ममार्हतम् । तत्यजे तद्धयेनेव पापवार्ताभिरप्यसौ ॥ २४३ ॥ अनुरूपो वरः कश्चिदुहितुर्मे भवत्विति । स्वयंवरमुपाक्रंस्त तत्कृते भीमभूपतिः ॥ २४४ ।। सर्वानाहातुमुर्वीशानन्यान्वैदर्भभूपतिः । प्राहिणोदपरान्देवदूतानाकूतकोविदान् ॥ २४५ ॥ अहं तु देवपादानामन्तिके मेदिनीभृता । प्रहितः परमात्मेव स्वस्वरूपमुमुक्षुणा ॥ २४६ ॥ तन्निजाभ्यां कुमाराभ्यां सहाभ्येत्य स्वयंवरम् । भूमीन्दो भीमभूजालमानन्दयितुमर्हसि ॥ २४७ ॥ मेदिनीशोऽपि तद्वाचमोमिति प्रतिपद्य ताम् । आदिदेश विदर्भेपु प्रस्थानाय वरूथिनीम् ॥ २४८॥ प्रजासंजनितत्रासं निग्रहीतुमिवान्तकम् । प्रत्यपाचीं दिशं सैन्यैः प्रतस्थेऽथ प्रजापतिः ॥ २४९॥ क्रमात्प्रत्युद्गतः प्रीत्या विदर्भपृथिवीमुजा। विवेश क्षोणिषट्खण्डमण्डनं कुण्डिनं नृपः ॥ २५०॥ नलं विलोक्य कंदर्पफल्पद्रुनयकन्दलम् । द यति ल वैदर्भजनोऽन्यानवनीभुजः ॥ २५१ ।।