पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/२०५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। 218 तनूजं सान्त्वयित्वेति धृतराष्ट्रोऽतिशापिनीम् । सभां निर्मातुमादिक्षत्तत्क्षणं स्थपतीश्वरान् ॥ २२६ ॥ निर्ममे तैस्तपःसूनुसभासब्रह्मचारिणी । शतद्वारा मणिस्तम्भसहस्रसुभगा सभा ॥ २२७ ।। सर्वसंदेहसंदोहभिदुरं विदुरं ततः । आप्तैराकारयामास भूपतिर्हस्तिनापुरात् ॥ २२८॥ आगत्य प्रणयप्रह्नः प्रणम्य चरणाम्बुजम् । क्षितीशितुरुपाविक्षत्प्राञ्जलिर्विंदुरः पुरः ॥ २२९ ॥ सुतसौबलयोः सर्वं कैतवाकूतपांसुरम् । ततः क्षोणिपतिस्तस्य तमालोचमचीकथत् ॥ २३०॥ अथोचे विदुरस्तीव्रविषादच्छिदुराशयः । युष्मन्मन्तेरोऽयमन्त्राणि हहा मेऽन्तर्निकृन्तति ॥ २३१ ।। वचो विद्यानवद्यानां नान्यथा भवति क्वचित् । कुलारण्यैकदावाग्निरुत्थितोऽयं सुयोधनः ।। २३२ ॥ किं न श्रुतं यथापूर्वं नलकूबरयोरपि । अनर्घफल एवायमभूद्यूतविषद्रुमः ॥ २३३ ॥ तथा हि कोसलेष्वस्ति कोशास्तधनदैर्जनैः । अलकाविजयप्रौढकौशला कोशलापुरी ॥ २३ ॥ तस्यामासीद्यशोम्भोधिप्लाविताशेषभूतलः । कृतवैरिवधूहारनिषेधो निषधो नृपः ।। २३५ ।। तस्याभूत्तनयो वैरिकुलकालानलोऽनलः। द्वितीयः खण्डितारातिडम्बरः कूबरः सुतः ॥२३६॥ वेत्रिणा वेदितोऽन्येयुरुपगम्य प्रणम्य च । दूतः कश्चिन्महीपालं मीलिताञ्जलिरब्रवीत् ।। २३७ ।। विदर्भेषु भुवः कर्णकुण्डलं कुण्डिनं पुरम् । देवास्ति देवदेशीयस्तस्मिन् भीमरथो नृपः ॥ २३८ ॥