पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/२०४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । २१७ वर्षीयानपि भूपालः पुत्रवात्सल्यपिच्छलः । नूनं जातस्तनूजानां यच्छिनत्ति न मत्सरम् ॥ २१३ ।। इति विश्वेऽपि कि विश्वे परीवादं ददासि में। तदेतसादपस्माराद्विनिवर्तितुमर्हसि ॥ २१४ ॥ (युग्मम्) सर्वैरप्यात्मनो मागाः सहायैस्त्वमहंयुताम् । नयेयुः पाण्डवेया हि वीरलक्षानपि क्षयम् ॥ २१५ ॥ इति भाषिणि भूमीन्दौ जगाद शकुनिः शनैः । एकमौपाधिकं वेद्मि स्वीकारे पाण्डवश्रियः ।। २१६ ॥ पतन्ति पत्रिणो यस्मिन्नाङ्गे कस्यापि संगरे । अकीर्तिश्च न विस्फूर्तिमियर्ति जगति क्वचित् ॥ २१७ ॥ द्यूतक्रीडामहं वेद्मि न पुनस्तपसः सुतः। तया हरामि तल्लक्ष्मीमनुजानीत चेद्भवान् ॥ २१८ ॥ धार्तराष्ट्रोऽब्रवीत्तात त्वमनुज्ञातुमर्हसि । आविष्कृतसुखोपायामिमां मातुलभारतीम् ॥ २१९ ।। ऊचे नृपतिराहूय विदुरं गजसाह्वयात् । तस्यालोचेन निश्चेष्ये स्थितो यस्यास्मि शासने ॥ २२० ।। खिन्नः सुयोधनोऽप्याह त्वं चेदालोचयिष्यसि । न दास्यति मतं तेऽसौ ततो मृत्युर्मम ध्रुवम् ॥ २२१ ॥ मृते च मयि राजेन्द्र विदुरेण सुखी भव उभावपि समेतौ च भुञ्जीयाथां मही मिमाम् ॥ २२२ ॥ उन्नमय्य मुखं स्नेहात्पाणिना शिरसि स्पृशन् । अथ रुष्टमभाषिष्ट धृतराष्ट्रस्तनूद्भवम् ॥ २२३ ।। लक्ष्मीस्ते हास्तिकप्राज्या स्वाराज्यस्यापि जित्वरी। धर्मात्मजन्मनो लक्ष्म्याः किंचनापि न हीयते ॥ २२४ ॥ अथाद्भुता सभा तादृङ्मम नास्तीति खिद्यसे । मा खिद्यस्व तथा कुर्वे यथा स्याः पूर्णवाञ्छितः ॥ २२५ ॥