पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/२०३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२१६ काव्यमाला। वलक्षमुदये भानोः पुण्डरीकं विकस्वरम् । मलिनं पश्य संकोचमन्दमिन्दीवरं पुनः ॥ २०० ॥ ममैवेति तपःसूनोः किं न चिन्तयसि श्रियः । प्रथन्ते मन्मथस्यैव वसन्तस्य हि संपदः ॥ २०१ ॥ नन्वात्मीय एवायमात्मीयानां खलूदयः । किं नाम्भोधिः स्पृशेल्लक्ष्मीमुदये मृगलक्ष्मणः ।। २०२ ॥ तदानन्दपदे वत्स विषादस्ते न सांप्रतम् । कोऽयं राकानिशीथिन्यामन्धकारः प्रगल्भते ॥ २०३ ॥ इत्यूचिवांसमाह स्म धराधीशं सुयोधनः । न तथा बाधते तात मल्लक्ष्मीर्मामनुत्तरा ॥ २०४ ॥ यथा तस्यां सभायां तैः पाञ्चालीसचिवैः कृतः । प्रहासो बाधते तं च मातुलः कथयिष्यति ॥ २०५॥ अथाख्यद्धृतराष्ट्राय मूलतः सौबलस्तदा । यथा यथा हसन्ति स पाण्डवेयाः सुयोधनम् ॥ २०६ । दुर्योधनोऽभ्यधाद्भूयः कृष्णया सममाददे । संपदं यदि (ये) तेषां तत्तात जीवामि नान्यथा ॥ २०७ । किं गण्यते स जीवन्यः परिक्लिष्टोऽपि जीवति । किमिन्दोरुदयः सोऽपि यः पयोदैस्तिरोहितः ॥ २०८ ॥ खञ्जिताभ्घ्रेर्वने दैवाद्गतविक्रमतेजसः । वरं मृत्युर्मृगारातेर्न करिभ्यः पराभवः ॥ २०९ ॥ इति व्याहरति क्रोधात्तस्मिन्नामलीमसे । धृतराष्ट्रः पुनर्वाचमुवाच गरिमोचिताम् ॥ २१० ॥ पाण्डवेयैः सहास्माकं शस्त्राशस्त्रि कथामपि । कुर्वतां स्वर्वति क्षिप्रं कीर्तिर्लज्जा तु दीर्घति ॥ २११ ।। सवंश्यैः समरारम्भनूतनाम्भोदवारिमिः । करोषि कुरुवंशेऽस्मिन्किं कलङ्कनवाङ्कुरम् ॥ २१२ ॥