पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/२०१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२१४ काव्यमाला। विनयाञ्चितमूर्धानो बान्धवाः सुहृदोऽप्यमी । गुरोर्गिरमिवाश्रान्तं नातिकामन्ति ते वचः ॥ १७ ॥ दूरापास्तकिरीटेषु गलन्माल्येषु मौलिषु । वत्सेदानीं तवाज्ञेव भूभृतामवतंसति ।। १७५ ॥ किंच ते पुरमप्येतत्कुबेरपुरजित्वरम् । जुगुप्सिताप्सरोरूपास्तव शुद्धान्तयोषितः ।। १७६ ।। जितदिग्दन्तिसंतानमिदमस्त्येव हास्तिकम् । अश्वीयमपि देवाश्वदेशमुज्जृम्भतेव च ।। १७७ ।। तव श्रीवेश्मनि स्मेरप्रभापिञ्जरिताम्बराः । दृश्यन्ते सुरशैलेन्द्रसपत्ना रत्नराशयः ॥ १७८ ॥ तव सौधं विनिर्धूतविमानं मानवेश्वर । अश्नासि च यथा स्वादु स्वैरं परिदधासि च ॥ १७९ ।। तदित्यालोचयन्खेदनिदानं ते न देह्यहम् । अन्यत्किमपि चेत्कथ्यं कथ्यतां वत्स तन्मम ॥ १८० ॥ व्याजहाराथ नीहारस्पृष्टपङ्केरुहाननः । मन्युसंभारसोत्कम्पवपुरुच्चैः सुयोधनः ॥ १८१ ।। तात यत्सत्यमस्त्येव श्रीर्ममेयमनुत्तरा । शश्वन्मनसि वास्तव्या यस्य त्वत्पादपांसवः ।। १८२ ॥ तृणाय सर्वमप्येतत्किं तु मन्येऽहमात्मनः । झलज्झलायितां दृष्ट्वा तपस्तनयसंपदम् ॥ १८३ ॥ नदी मोदयते तावद्यावन्नालोक्यतेऽर्णवः । तावदालोककृद्दीपो यावन्नोदेति भानुमान् ॥ १८४ ॥ किं श्रियो यासु नोत्कर्षतारतम्यस्य विश्रमः । किं शूरः समरे यस्मै तिष्ठतेऽन्योऽपि दोर्मदात् ॥ १८५ ॥ चित्ररूपापि मे संपत्सर्ववर्णमनोरमा । चण्डैः पाण्डुसुतौन्नत्यधूमैर्ध्यामलिताधुना ॥ १८६ ॥