पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/२००

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । २१३ बभाषे सौबलः श्रीमन्देवता इव देवनाः । परं मयि प्रसीदन्ति नातिकामन्ति मे मनः ॥ १६१ ॥ नित्यं दुरोदरक्रीडात्यक्तव्रीडो युधिष्ठिरः। असौ क्रीडितुमाहूतः क्षणं न स्थातुमीहते ॥ १६२ ॥ देवितुं च न वेत्त्येव वीर खिद्यस्व मा म तत् । केनापि छद्मना स्वस्मिन्नयमाहूयतां पुरे ॥ १६३ ॥ तल्लक्ष्मीमखिलां येन करमारोहयामि ते । परं सर्वोऽयमालोचः पितुः स्वस्य निवेद्यताम् ।। १६४ ॥ दुर्योधनोऽभ्यधान्नाहमाख्यातुमिदमीश्वरः । सर्वमेतन्महीभर्तुस्त्वमेव कथयिष्यसि ।। १६५ ॥ इत्यन्योन्यकृतालोचसूत्रितोपायनिर्णयौ । शकुनिर्धार्तराष्ट्रश्च ताविन्द्रप्रस्थमीयतुः॥ १६६ ॥ प्रविश्य सहसा तत्र धृतराष्ट्रमहीपतिम् । न्यञ्चत्पञ्चाङ्गमानम्य तावुपाविशतां पुरः ॥ १६७ ॥ मुखकूलंकषोत्तालनिश्वासलहरीमुचम् | दुर्योधनं प्रियं पुत्रं धरित्रीपतिरब्रवीत् ॥ १६८ ॥ वत्स वल्गन्ति निश्वासा दीर्घदीर्घाः किमद्य ते। प्रस्तुतस्तत्र केनापि किं तवापि पराभवः ॥ १६९ ॥ जातवेदसि को दातुं झम्पासंपातमीहते । आच्छेत्तुमिच्छति स्वैरं कः फणीन्द्रफणामणिम् ॥ १७०॥ ततः शकुनिरह्वाय महीपतिमवोचत । राजन्सुतं तवेन्द्रोऽपि पराभवितुमप्रभुः ॥ १७१ ॥ अन्यत्किमपि तद्दुःखमस्त्यन्तस्तनयस्य ते । येनैष म्लानिमानिन्ये तरुवत्कोटराग्निना ॥ १७२॥ उवाच भूपतिर्वाचं चिन्ताचान्तमनाः पुनः । चिन्तयन्नपि पश्यामि न ते दुःखस्य कारणम् ॥ १७३ ॥