पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/१९८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । २११ विहाय हेमकोटीरं मूर्ध्नि स्रग्दामवासिते । उत्तंसीकुर्वते तस्य शासनं मेदिनीभृतः ॥ १३५ ॥ ध्वजारोपोत्सवे तावत्त्वयाप्यालोकितं तथा । यथास्य प्रश्रयानम्रै राजकैः किंकरायितम् ॥ १३६ ॥ तथास्य सर्वथा जज्ञे काश्यपी वशवर्तिनी । करैः पत्तद्भिरस्थानेऽप्यसौ नोद्विजते यथा ॥ १३७ ॥ एतदुत्पश्यतः सर्व प्राप्तमिष्टं युधिष्ठिरे । कामं ममान्तरात्मानं दहतीव हुताशनः ।। १३८ ।। बलीयः पुण्यमेवैकं न पुनः पौरुष क्वचित् । पाण्डवा हन्त जीवन्ति यन्निर्मूलयतोऽपि मे ।। १३९ ।। इदानीमप्यहं शत्रूंस्तानुच्छेत्तुमलंतमाम् । सहायमद्भुतं कंचित्किंतु पश्यामि नात्मनः ॥ १४० ॥ इमामुद्दीक्षितुं लक्ष्मीं विपक्षाणामशक्नुवन् । अत्रैवात्मानमुद्दबध्य तन्मरिष्याम्यसंशयम् ॥ १४१ ॥ त्वं पुनर्मे पितुर्गत्वा सर्वमेतन्निवेदयेः। इत्युक्त्वा विरते तस्मिन्पुनः शकुनिरब्रवीत् ॥ १४२ ॥ धार्तराष्ट्र न खल्वेतदाभिजात्योचितं वचः । सन्तो हि स्फुटदानन्दकन्दलाः स्वजनोदये ॥ १४३ ॥ पैत्र्यमेव क्षितेः खण्डं पाण्डवैरुपभुज्यते । मनागपि न तन्न्यूनमुपभुङ्क्ते भवानपि ॥ १४४ ॥ भुवनाद्भुतसौभाग्यैर्भाग्यरेतावतीं यदि । तल्लक्ष्मीरगमत्कोटिं नामर्षस्तेऽत्र सांप्रतम् ॥ १४५ ॥ भ्रातृभिर्यदि भूभर्तुस्तस्य संगरभङ्गुराः । किंकरीचक्रिरे भूपाः किमानन्दायते न तत् ॥ १४६ ॥ यत्तु व्याकुरुषे तादृक्सहायो नास्ति कोऽपि मे । नानुमोदामहे वाचं तामेतां ते मनागपि ॥ १४७ ॥