पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/१९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२१० काव्यमाला । तेनाङ्कुरितकोपोऽपि निगूहन्नाकृतिं निजाम् । अनालोकितकेनैव स धीमांस्तानि पर्यधात् ॥ १२२ ।। दूरोन्नतामपि क्वापि जानन्नुर्वीमनुन्नताम् । स्खलित्वा स पतन्नुच्चैरुपाहस्यत जिष्णुना ॥ १२३ ॥ अपावृतादपि द्वाराद्भाभिरावृतशङ्कया । व्यावृत्तं हसतः स्मैनं दत्ततालं मिथो यमौ ॥ १२४ ॥ इत्याद्यैः पाण्डवेयानामुपहासैर्मुहुर्मुहुः । कौरवाधिपतेरन्तरुज्जजागार मत्सरः ॥ १२५ ॥ सत्कृत्य प्रणयार्द्रेण प्रेषितः पाण्डुसूनुना । इन्द्रप्रस्थं प्रतस्थेऽथ सोऽभिमानी समातुलः ॥ १२६ ॥ स दीनवदनाम्भोजः शून्यात्मा निश्वसन्मुहुः । यदा किंचिद्ददौ कामं जल्पमानोऽपि नोत्तरम् ॥ १२७ ।। तदा सविधमभ्येत्य मातुलः सौबलो बलात् । जगाद पथि गच्छन्तं करे धृत्वा सुयोधनम् ।। १२८ ॥ किमेतत्ते मुखं धत्ते प्रातःशीतरुचो रुचम् । इति जल्पन्तमस्वल्पं गान्धारेयस्तमभ्यधात् ॥ १२९ ।। जीवञ्जगति किं नाम वर्तते मम मातुलः । एवमत्यन्तमृध्यन्ति पश्यतो यस्य शत्रवः ।। १३० ॥ सहस्रशो मणिज्योतिर्निर्मितामरकार्मुका । सुधर्मामभ्यधःकृत्य जृम्भते भुवि सा सभा ॥ १३१ ॥ दिगन्तसंपदः संप्रत्यहंपूर्विकयाखिलाः । धर्मनन्दनमायान्ति द्वीपवत्य इवार्णवम् ॥ १३२ ॥ आदाय सत्करैर्ग्रीष्मभास्वानप इव श्रियः । सांप्रतं परितो वर्षन्हर्षयत्यखिलामिलाम् ।। १३३ ।। कुबेरीकृतनिःशेषवनीपककुलाः श्रियः। तस्य न्यक्कुर्वते गर्वं गीर्वाणेन्द्रश्रियामपि ॥ १३४ ॥ वनीपको याचकः.