पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/१९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । २०९ श्रीबुद्धिसागराचार्येस्तत्र श्रीशान्तिवेश्मनि । अचीकरद्ध्वजारोपं यथाविधि युधिष्ठिरः ॥ १०९ ॥ स विरेजे ध्वजः प्रेङ्खन्मरुत्कलोललोलितः । रजो विश्वभ्रमासक्तं तत्कीर्ति विनयन्निव ॥ ११०॥ विस्मयस्सेरराजन्यवीक्षितं क्षितिवासवः । दाशाहिकोत्सवं चक्रे संपत्संभारभासुरम् ॥ १११ ॥ ततः प्रवर्धमानेन श्रद्धाशुद्धेन चेतसा । संघमभ्यर्चयांचके यथौचित्यं स कृत्यवित् ॥ ११२ ॥ सत्कृत्य वस्तुभिस्तैस्तैस्तदानीतोपदाधिकैः । अथ भूमीभुजो राजा प्रैषीद्देशं निजं निजम् ।। ११३ ॥ समुद्रविजयाह्वानादुत्सुकं धर्मनन्दनः । औचितीचञ्चुरभ्यर्च्य विससर्ज गदाग्रजम् ।। ११४ ॥ दुर्योधनं पुनर्बन्धुप्रेमप्रह्लादमानसः । दिनानि कतिचित्तत्र धात्रीपतिरघारयत् ॥ ११५॥ साकं शकुनिना तत्र मातुलेन सुयोधनः। पाण्डवस्फोतिसेर्ष्योऽपि गूढाचारोऽवसच्चिरम् ॥ ११६ ॥ लीलाशिलोच्चयक्रीडावापीकेलिवनादिषु । चिक्रीड पाण्डवैः सार्धं सुमनोभिः स दुर्मनाः ॥ ११७ ॥ विविक्तपरिवारेण पूर्वमुर्वीभृताश्रिताम् । अपरेद्युः सभां दिव्यां विवेश धृतराष्ट्रभूः ॥ ११८ ॥ तत्राप इति विज्ञाय नवस्फटिककुट्टिमे । दुकूलाञ्चलमुत्कर्षन्नहस्यत स किंनरैः ॥ ११९ ॥ स्थलान्ब्जिनीधिया धावन्नादातुमरविन्दिनीम् । स गूढे तज्जले मज्जञ्जहसे वायुसूनुना ॥ १२० ॥ ततः स्मेरकपोलाक्षस्तत्क्षणादनुजीविभिः । तस्यापराणि वासांसि काश्यपीपतिरार्पयत् ।। १२१ ॥ स्फातिवृद्धिः 1