पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/१९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । शश्वदभ्रंलिहे तस्य स्फाटिकस्य शशी निशि । ज्योतिर्जालजले मज्जन्सस्मार क्षीरनीरधेः ॥ ८३ ॥ तत्रालोक्य ध्रुवं रूपशालिनीः शालिभञ्जिकाः । अमरैरमरीरूपशिल्पी काममनिन्द्यत ॥ ८४ ॥ यदि वा नास्ति तत्स्वर्गे नावनौ न रसातले। यदुपैत्युपमानत्वं तस्य यच्चोपमेयताम् ॥ ८५ ॥ विश्वाद्भुतश्रियस्तस्य ध्वजारोपणपर्वणि | दूतैराह्वाययामास सर्ंव राजा स राजकम् ॥ ८६ ॥ प्रहित्य नकुलं प्रौढप्रश्रयप्रवणाशयः । प्रीत्या निमन्त्रयामास केशवं धरणीधवः ॥ ८७ ॥ बन्धुवात्सल्यसोल्लासमना दुर्योधनं पुनः । सहदेवेन भूमीन्द्रः सबान्धवमजूहवत् ॥ ८८ ॥ स्वस्वदेशप्रसूतानि तस्य चेतःप्रसत्तये । उपायनान्युपादाय तत्राजग्मुर्महीभुजः ॥ ८९ ॥ पराभूताश्रमातङ्गैः पौरस्त्याः पृथिवीभुजः । मदामोदिकपोलैस्तं करीन्द्ररुपतस्थिरे ॥१०॥ वज़वैडूर्यमुक्तादि रत्नाजातमधिद्युति । आदाय तमुपासीदन्दाक्षिणात्याः क्षितिक्षितः॥ ९१।। दिव्यैः कौशेयवासोभिभूषणैश्च हिरण्मयैः । अपरान्तमहीपालास्तमभ्येयुर्भयापहम् ॥ ९२ ॥ स्वस्वदेशोद्भवैस्तैस्तैः सुरसैन्धवबान्धवैः । उपसेदुस्तमश्वीयैरौत्तराहा महीभृतः ॥ ९३ ॥ मनुष्यमयश्वेभमयं लक्ष्मीमयं च तत् । बभूव सर्वभूपालैः संगतं नगरं तदा ॥ ९४ ॥ अथ लग्नदिने धाम्नि षोडशस्य जिनेशितुः। विश्व संगमयांचक्रे राजचक्रं महीपतिः ॥ ९५ ॥