पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/१९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२०६ काव्यमाला। अपि पुण्यजनाधीशमप्यनेकनिधीश्वरम् । राजराजमपि ख्यातमपीश्वरसुहृत्तया ॥ ७० ॥ भूपः सुपर्वधर्मत्वाद्विश्वाशाः परिपूरयन् । जिगाय मर्त्यधर्माणमुत्तराशावलम्बिनम् ॥ ७१ ॥ (युग्मम् समुत्पेदे तदान्योऽपि नृपस्यानन्दकन्दलः । पार्थवध्वाः सुभद्रायास्तनूजो यदजायत ।। ७२ ।। कृतार्थानर्थिनः कृत्वा स्वपतेयैर्यथेप्सितैः । काश्यपीपतिरस्याख्यामभिमन्युरिति व्यधात् ।। ७३ ।। सिञ्चन्श्रद्धाजलैर्धर्मफलाकाङ्क्षी प्रतिक्षणम् । सप्तक्षेत्र्यां वसून्येष वपति स्म गतस्मयः ॥ ७४ ॥ हढे जन्मान्तरद्वीपक्षेमगामिन्यनारतम् । स सहस्रगुणीकर्तुं धर्मपोते श्रियो न्यधात् ॥ ७५ ॥ अवाप्तजन्मनस्तत्र तत्र वृद्धिमुपेयुषः । तत्रैव चाक्रवर्तित्वलक्ष्मीदीक्षादिशालिनः ॥ ७६ ॥ नाना रत्नैरधःकुर्वन्गर्वं गीर्वाणवेश्मनाम् । विहारः कारयांचके तेन शान्तिजिनेशितुः ॥ ७७ ॥ (युग्मम् ज्वलत्कनकमाणिक्यमयमालोक्य तं जनः । चकार सुरशैलेन्द्रदिदृक्षाशिथिलं गनः ॥ ७८ ॥ इन्द्रनीलमयद्वारशाखांशुश्रेणिकैतवात् । सान्द्रच्छायोल्लसत्तीरवनराजीविराजिनी ॥ ७९ ॥ तत्र स्फटिकसोपानप्रभाव्याजेन जाह्नवी । रेजे पवितुमात्मानमागतेव तरङ्गिता ॥ ८० ॥ (युग्मम् ) शातकुम्भीयकुम्भौघप्रतिबिम्बैर्व्य॑डम्बयत् । नीलाश्मकुट्टिमं तस्मिन्सहेमकमलां यमीम् ।। ८१ ॥ ज्योतीरसमयक्षुद्र जैनवेश्मपरिष्कृतः । मुक्तानद्धः क्षितेः कर्णताटङ्क इव स व्यभात् ॥ ८२ ॥ १. धनैः, २. शातकुम्भ खर्णम्