पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/१९१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२०४ काव्यमाला। तत्रास्य पिण्डखर्जूरखादमेदस्विसंमदैः । चिरमध्यूषिरे कच्छाः सैनिकैः पश्चिमाम्बुधेः ॥ ४५ ॥ यवनीवदनाम्भोजविकासतुहिनोत्करः । शकीसंभोगशृङ्गारसमुद्रकलशोद्भवः ॥ ४६॥ माद्यत्पश्चनदस्त्रैणभदामोदमलिम्लुचः । सैन्धवीवर्गवैधव्यव्यसनी स न्यवर्तत ॥ १७ ॥ सहदेवोऽपि देवेन्द्रदेश्यशौण्डीरिमक्रमः । व्यगाहत महाबाहुः कुबेरचरितां दिशम् ॥ ४८ ॥ संदिशन्हारसंहारि जाङ्गलीनाममङ्गलम् । आस्कन्दति स काम्बोजानोजस्विभुजविक्रमः ॥ १९ ॥ उपनीय हयानुच्चैर्न्यञ्चितोच्चैःश्रवःश्रियः । तदुर्वीपतिरात्मानमवति स्म कुरुद्वहात् ॥ ५० ॥ तस्य नेपालभूपालः केलिकस्तूरिकामृगान् । उपदीकृत्य पाति म श्रियं पूर्वक्रमार्जिताम् ।। ५१ ॥ क्षुण्णकुङ्कुमकेदारपांशुपूरपिशङ्गिताः । कश्मीरेषु हयास्तस्य बिभ्रतिस्मैकवर्णताम् ॥ ५२ ।। हिमालयमथारुह्य पार्वतीयान्विजित्य च । निचखान जयस्तम्भांस्तदुच्छायं विवर्धयन् ।। ५३ ।। नानाश्चर्यमयात्तस्मादवरुह्य गिरेः शनैः। आदिदेश स हूणीनामुरःकुट्टनपाटवम् ।। ५४ ।। पिबन्कीरयशक्षीरं स्वसश्रीरसमाहरन् । नितान्तपुष्टसर्वाङ्गः स प्रत्याववृते ततः ॥ ५५ ॥ इत्यादाय दिशां लक्ष्मी नगरे नागसाह्वये। तपःसूनोः कनीयांसश्चत्वारोऽप्याययुः समम् ॥ ५६ ॥ दिक्कुक्षिंभरिमिः सैन्यै राजा प्रत्युज्जगाम ताम् । प्रवाहानिव सिन्धूनामूर्मिभिर्मकराकराः ॥ ५७ ॥