पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/१९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । २०३ केरलीकुरुलान्लुम्पन्वैदर्भीविभ्रमान्हरन् । द्रामिलीकेलिमुल्लिम्पन्मलयोपत्यकां ययौ ।। ३२ ॥ (युग्मम् ।। तस्यामालानितैस्तस्य चन्दनदुमकानने । नामसाम्यादिव क्रुद्धैर्नागैर्नागा निरासिरे ॥ ३३ ॥ तत्र तस्य लवङ्गैलालवलीस्वादलालसाः । सल्लकीपल्लवग्रासे वैमुख्यमभजन्गजाः ॥ ३४ ॥ पाण्डवः सह मुक्ताभिः पाण्ड्यानामाहरन्यशः । ताम्रपर्णीयुजि प्राप दक्षिणाम्भोधिरोधसि ॥ ३५ ॥ तत्रोत्तम्भ्य जयस्तम्भान्सेतुबन्धैकबन्धुरे । द्वैराज्यं रामकीर्तीनां चकार निजकीर्तिभिः ।। ३६ ॥ स्वादं नगरखण्डानां वनवासस्थलीषु सः । लम्भयन्सैनिकांस्तस्थौ कुन्तलीलोलुपश्चिरम् ॥ ३७ ॥ कौङ्कणीकङ्कणान्भञ्जन्नालिकेरीद्रुमैः सह । लाटीकटाक्षलुण्टाकः सोऽथ व्यावर्तत क्रमात् ।। ३८ ॥ यशःकुसुमसौरभ्यवासितक्षितिमण्डलः । नकुलोऽपि विवेशान्तः प्राचेतस्या दिशस्तदा ॥ ३९ ॥ प्रापयन्नन्तमत्यन्तमावन्तीनयनाञ्जनम् । उच्छिन्दन्बहलच्छायाः सौराष्ट्रीपत्रवल्लरीः ॥ ४० ॥ महार्णवसरस्वत्योः प्रियमेल कपावितम् । प्रवासक्षेत्रमक्षोभ्यबलोर्मिनकुलो ययौ ॥४१॥ (युग्मम् ) प्रक्षाल्य मलमुद्वीक्ष्य तत्र चन्द्रप्रभप्रभुम् । जयस्तम्भान्महारम्भो न्यस्यति स्म स धीरधीः ॥ ४२ ॥ शृण्वन्स द्वारकालोकगीतं कंसजितो यशः। पूगपूगवता कच्छान् कच्छेनैवाम्बुधेर्ययौ ॥ १३ ॥ गोपयित्वा निजां कीर्तिविस्फूर्ति तत्र वारणान् ।। पारसीकाननीकेन स चकारात्मकिंकरान् ॥ ४४ ॥