पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/१८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२०२ काव्यमाला । चतुर्भिरप्यनीकैस्तैराक्रान्तां परितः क्षितिम् । बभार समभारत्वात्सुखमेव फणीश्वरः ॥ १९ ॥ एभिः प्रसभमारब्धाः कुर्युः किं नाम भूमिपाः । इतीव द्रष्टुमुच्चैर्द्यामारोहद्वाहिनीरजः ॥ २० ॥ निःशेषारिवधूनेत्रसलिलैः कूलमुद्रुजाः । स्रवन्तीनौर्भिरुत्तेरुस्ते गुल्फद्वयसीरपि ॥ २१॥ दिमिकुलेषु मूर्च्छन्तस्तेषां निखाननिखनाः । भूभृतां दारयामासुर्दरींश्च हृदयानि च ॥ २२ ॥ आत्मीयमपि ते बाह्वोरूष्माणमसहिष्णवः । केतनालिच्छलान्मन्ये कदलीवनसेविनः ॥ २३ ॥ क्षुण्णा हरिखुरैर्दन्तिपादपातैर्मतीकृताः। भुवस्त्वत्कीर्तिबीजानां वापयोग्या इवाबभुः ॥ २४ ॥ अथ भीमः क्रमात्कामरूपान्भीमभुजो ययौ । सैन्यदन्तिमदस्पर्द्धिकालागुरुरसश्रुतीन् ॥ २५ ॥ तदीयां श्रियमादाय स ततार सुरापगाम् । लम्भयन्कुम्मिनां दानैर्यमुनासंगमोत्सवम् ॥ २६ ॥ ततोऽङ्गान्भक्तिनम्राङ्गान्सुह्नाञ्जिह्मितविक्रमान् । स्वानमाद्वङ्गबद्धाङ्गान्स चकार भुजौजसा ॥ २७ ॥ स वितेने रणारम्भनिष्कलानुत्कलानपि । कलिङ्गानपि निर्मुक्तराजलिङ्गानसूत्रयत् ॥ २८॥ अथारोप्य जयस्तम्भान्गङ्गासागरसंगमे । उन्मूलयन्स पाञ्चालडहालादीन्यवर्तत ॥ २९ ॥ अर्जुनोऽप्यर्जुनच्छायमर्जयन्मार्गणैर्यशः न तेष्वक्षुण्णदाक्षिण्यो दक्षिणामाविशद्दिशम् ॥ ३० ॥ भ्रष्टराष्ट्रान्महाराष्ट्रान्कर्णाटांश्चाटुकारिणः । तिलङ्गानङ्गुलिव्यङ्गान्कुर्वाणः स रणे शरैः ॥ ३१ ॥