पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/१८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । २०१ प्रतापदुःसहे तस्मिन्पुष्णति स तरङ्गितः । कीर्तिकल्लोलिनीर्धर्मो धर्माविव नीरधिः ॥ ६ ॥ तत्तेजोऽग्निस्तनूर्मूषाः प्रताप्य विरसा द्विषाम् । तारैर्यशोभिराश्चर्यं पूरयामास रोदसी ॥ ७ ॥ ध्वान्तध्वंसिनि सत्येव गलद्वयसि राजनि । भास्वत्युदित्वरे तस्मिन्ननन्दुरधिकं प्रजाः ॥ ८ ॥ दिग्जिगीषाकृतोन्मेषं तस्य ज्ञात्वा मनोऽन्यदा । कनीयांसः समं नत्वा चत्वारोऽपि बभाषिरे ॥ ९॥ किं नाम जगदुद्दयोतहेवाकेषु गभस्तिषु । तमःसंभारभेदाय भानुरुद्यच्छते स्वयम् ॥ १० ॥ देव दक्षिणवातेन्दुवसन्तादिषु सत्स्वपि । मानिनीमानभङ्गाय कामः किं धावति स्वयम् ॥ ११ ॥ पुरःसरेषु किं नाम तरङ्गसमरोर्मिषु । जलाशयः स्वयं पान्थखेदच्छेदाय सादरः ॥ १२ ॥ सत्सु तत्रिजगज्जैत्रभुजेषु निजबन्धुषु । दिशां जयाय देवेन न प्रस्थातव्यमात्मना ॥ १३ ॥ इत्याकर्ण्य वचस्तेषां जहर्ष जगतीपतिः । निदेश्येर्हि जयो राज्ञां कीर्तिमावहते पराम् ॥ १४ ॥ क्रमाम्भोजनतान्नीतिचतुरश्चतुरोऽपि तान् । अंशयोरामृशन्त्रीत्या स दिशो जेतुमादिशत् ॥ १५ ॥ राजाज्ञेत्यन्बमन्यन्त चतुरङ्गां चमूममी । मृगेन्द्रः करिणो हन्ति किं मृगैः परिवारितः ॥ १६ ॥ कुन्तीमाद्र्यादिभिर्गोत्रवृद्धाभिः कृतमङ्गलाः । तेऽथ प्रतस्थिरे सैन्यैश्चत्वारोऽपि पृथक् पृथक् ॥ १७ ॥ भीमः प्राची दिशं जिष्णुरपाचीं नकुलः पुनः । प्रतीचीं सहदेवस्तु किलोदीचीमशिश्रियत् ॥ १८ ॥ २६