पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/१८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२००
काव्यमाला।
.
नयनाञ्जलिभिः पौरनारीभिश्चालिताञ्चलम् ।
पीयमानोमुहुः प्रीत्या हास्तिनं सोऽत्यहस्तयत् ॥ ५३१ ॥
बन्धुप्रीत्या गुरूणां च पर्यालोचे न तत्क्षणाम् ।
दुर्योधनं स राजानमिन्द्रप्रस्थेऽभ्यषिञ्चत ।। ५३२ ॥
अन्येषामपि बन्धूनां धृतराष्ट्रात्मजन्मनाम् ।
पार्थिवः स यथौचित्यं ददौ देशान्पृथक्पृथक् ।। ५३३ ॥
उत्सर्पदुत्सवमयं स विभुः समाप्य
राज्याभिषेकमहमिद्धमहःप्ररोहः ।
सत्कृत्य कैटभरिपुप्रभृतीनरेन्द्रान्
रत्नोत्करैर्निजनिजान्प्रजिघाय देशान् ॥ ५३४ ॥
इति जिनपुरुहूतः स्फीतपुण्योपहूतः
प्रतिनतनृपतिश्रीसेव्यमानाङ्गिपद्मः ।
ससुरभिगुणमालो मालतीदामकुन्द-
स्तबकविशदकीर्तिः पूगमह्नां निनाय ॥ ५३५ ।।
इति मलधारिश्रीदेवप्रभसूरिविरचिते पाण्डवचरिते महाकाव्ये पार्थतीर्थयात्रा
युधिष्ठिरराज्याभिषेकवर्णनो नाम पञ्चमः सर्गः ॥
षष्ठः सर्गः।
अथ पाण्डुर्विमुक्तश्रीरात्मारामैकमानसः ।
मुक्तावुत्थातुकामोऽपि तत्रैवास्थात्सुताग्रहात् ॥ १॥
धृतराष्ट्रं ततः सूनुर्भक्तमानी सुयोधनः।
इन्द्रप्रस्थं व्यवस्थाविन्निनाय सममात्मना ।। २ ।।
युधिष्ठिरगुणग्रामकामसंदानिताशयाः ।
गाङ्गेयविदुरद्रोणा हास्तिने व्यवतस्थिरे ॥ ३ ॥
पाण्डोस्तपःसुते बाढं रेजिरे राज्यसंपदः ।
भृशायन्ते हि तेजांसि प्रदीपे जातवेदसः ।। ४ ॥
सौम्ये च दुःप्रधर्षे च तस्मिन्पल्लविता भृशम् ।
वनराजीव राज्यश्रीः शिशिरोष्णे मधाविव ।। ५ ॥