पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/१८४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् ।
१९७
सर्वेऽप्युर्वीभृतः स्वर्णकलशावर्जितैस्ततः ।
सहर्षमभ्यषिश्चन्त वारिभिर्धर्मनन्दनम् ।। ४९३ ॥
पतन्तः पयसामोघास्तस्य मूर्ध्नि विरेजिरे ।
प्रावृषेण्यपयोवाहप्रभवा इव भूभृतः ॥ ४९४ ॥
चित्रं तस्यारिभूमीभृद्वंशदाहहविर्भुजः।
अभिषेकजलैलक्ष्मीमगाहत महः परम् ॥ ४९५ ।।
प्रवाहः पयसां धर्मपुत्रगानपवित्रितः ।
पुपूषुरिव तत्कालं पपात स्वःसरिज्जले ।। ४९६ ।।
मूर्तैरिव यशोबीजैर्दूर्वाङ्कुरकरम्बितैः ।
अवाकिरंस्तमाचारलाजै राजीवलोचनाः ॥ ४९७ ॥
गम्भीरमधुरैस्तूर्यनिनदैरुच्छ्रितोत्थितैः ।
कल्याणशंसिभिः प्रीतिरजागर्यत कस्य न ।। ४९८ ।।
गोत्रधात्रीशसंतानस्तुतिपूतास्तपःसुतः।
शुश्राव श्रवणानन्दस्यन्दिनीर्वन्दिनां गिरः॥ ४९९ ॥
अर्थिभ्यः स ददौ तावद्द्रव्यमव्याहताशयः ।
यावता जज्ञिरे तेऽपि शश्वदर्थिजनार्थिनः ॥ ५०० ॥
मुञ्चन्स कृत्यधारालवैरक्रूरात्रिपूनपि ।
स क्षणादकरोत्काराविशोधनमधिद्युतिः ॥ ५०१ ॥
अधर्मद्रुमसंतानच्छेदनादभ्रमावहः ।
दीयते स्म तदादेशादमारिपटहः पुरे ॥ ५०२ ।।
दग्धकर्पूरधूमोत्थनवमेघालिमालिषु ।
स पुरेऽकारयज्जैनमन्दिरेषु महोत्सवम् ।। ५०३ ॥
निधीशनिधिसर्वखभ्रमकारीणि भूभुजाम् ।
मङ्गलोपायनान्यस्य प्रविशन्ति स्म वेश्मनि ॥ ५०४ ॥
ततस्तमभिषेकान्ते कक्षान्तरनिवेशिनम् ।
दिव्यैः प्रसाधिकास्तैस्तैर्नेपथ्यैरुपतस्थिरे ॥ ५०५ ॥