पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/१८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला।
{
निवासाः क्ष्माभुजां रेजुः परितो हस्तिनापुरम् ।
सर्वतोऽपि तुषारांशुमालिनं तारणा इव ॥ ४८० ॥
तूर्यप्रणादमेदस्विनारीमङ्गलगीतिभिः ।
शब्दाद्वैतमयस्तस्मिन्पुरे प्रावर्ततोत्सवः ॥ ४८१ ॥
व्योमलक्ष्मीविनिर्मीयमाणनिर्मार्जनश्रियः।
वैजयन्त्यो जनैस्तस्मिन्समुच्चिक्षिपिरे पुरे ॥ १८२ ।।
हर्षाकुलचलच्चेटीकुचसंघट्टचूर्णितैः ।
राजवेश्मभुवो हारैश्चक्रिरे बद्धसैकताः ॥ ४८३ ॥
तोरणानि जनैः स्वस्वमन्दिरेषु चिकीर्षुभिः ।
निष्पत्राश्चक्रिरे केलिकाननाम्रवनश्रियः ॥ ४८४ ॥
प्रतिमन्दिरमुत्क्षिप्तकदलीस्तम्भकान्तिभिः ।
नगरं तन्महानीलशिलामयमिवाबभौ ॥ ४८५ ।।
राजते स्म जनैर्दिव्यनेपथ्याभरणोज्वलैः ।
तत्पुरं सामरेव द्यौरवतीर्णा महीतलम् ॥ ४८६ ॥
नानाग्रामागतग्राम्यस्त्रैणपाणिंधमाध्वनि ।
अपूर्यत पुरे तस्मिन्पौराणां नेत्रकौतुकम् ।। ४८७ ।।
मिलन्निखिलभूपालतुरङ्गखुरखण्डितम् ।
अभिषेकजलप्लावभियेव द्यां ययौ रजः ॥ ४८८ ॥
गान्धारीमाद्रिकामुख्यमालोक्यान्तःपुरीगणम् ।
रचितानेकरूपेव मन्यते स्म शची जनैः ।। ४८९ ॥
तपःसुताभिषेकाय माणिक्यमयमद्भुतम् ।
विमानं मानवेन्द्रेण पर्यकल्प्यत शिल्पिभिः ॥ ४९० ॥
तत्र धात्रीपतिर्विप्रैः कृतनीराजनाविधिः ।
वशी निवेशयामास भद्रपीठे युधिष्ठिरम् ।। ४९१ ॥
पुरोहितं पुरस्कृत्य मन्त्रसंस्कारपावितैः ।
पार्थिवस्तीर्थपाथोभिरभ्यषिञ्चत्तपःसुतम् ॥ ४९२ ॥
१. अन्धकारावृते.