पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/१८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् ।
धर्मपीयूषकूपस्य पीतपूर्वी पयः पुमान् ।
मृत्यु मरुमिवातीत्य याति मुक्तिपुरीं सुखम् ॥ ४६७ ॥
तन्निक्षिप्य क्षमाभारं सर्वज्येष्ठे युधिष्ठिरे ।
धर्म्या एव क्रियाः कामं कर्तुमिच्छति मे मनः ॥ ४६८ ॥
प्रह्वीभूतस्तथा लोको गुणोधैर्धर्मजन्मनः ।
तत्कथाभिर्यथा जज्ञे नित्यमुज्जागरः पुरे ॥ ४६९ ॥
गुणैरस्येन्दुदायादैर्मनोवेश्मनिवासिभिः ।
अवक्रय इव प्रीतिः प्रकृतीनामदीयत ॥ ४७०॥
गाङ्गेयधृतराष्ट्राधा ज्यायांसोऽपि तपःसुते ।
राज्यधुर्योऽयमेवेति सर्वे मनसि मन्वते ॥ ४७१ ॥
अस्तु राजन्वती भूमिस्तदेतेन चिरादियम् ।
सर्वस्याप्यस्य लोकस्य पूर्यन्तां च मनोरथाः ॥ ४७२ ॥
वत्स प्रतीक्षितोऽसि त्वमेतावन्ति दिनानि तु ।
मधोरभ्युदयः श्रेयान्विना न मलयानिलम् ॥ ४७३ ॥
उभाकर्णीदमाकर्ण्य वचः प्रीत्या महीपतेः ।
सव्यसाची ततो वाचमुवाच विनयान्विताम् ॥ ४७४ ॥
इदं तातस्य को नाम वचो न बहुमन्यते ।
कोविदः को हि कुर्वीत मीमांसामागमोक्तिषु ॥ ४७५ ।।
प्रियंकरा च नो कस्य श्रीसंक्रान्तिस्तपःसुते ।
श्रयन्तीह सुधारश्मि न मुदे कस्य कौमुदी ।। ४७६ ॥
गिरमेतां च तातस्य यः प्रमाणयिता नहि ।
मामकास्तस्य मूर्द्धानं सहिष्यन्ते न सायकाः ॥ ४७७ ।।
इत्यात्मजन्मनो बाचा प्रीतचेताः क्षितीश्वरः।
धर्मात्मजाभिषेकाय तत्कालमुपचक्रमे ॥ ४७८ ।।
कृष्णादीनवनीपालान्दूतैराहाययन्नृपः ।
दूरात्पुष्पधयान्पुष्पसौरभैरिव भूरुहः ॥ १७९ ॥