पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/१७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् ।
बभूव रभसाच्चेतः सोदराणां विकस्वरम् ।
भास्वत्युदीयमाने हि किमु जीवति नाम्बुजम् ॥ ४१६ ॥
आदिश्य पुरि तत्कालमुत्सवं सपरिच्छदः ।
- तनूज मनसः पश्चाद्भूपतिः प्रत्युदव्रजत् ॥ ४१७ ॥
मेदिनीपतिमागत्य पुरद्वारवनावनौ ।
अनेदीयांसमुद्दयोतसंभारं भृशमैक्षत ॥ ४१८॥
मार्तण्डमण्डलैः पूगतिथैरिव मरुत्पथः ।
व्याप्यमानो विमानौधैस्ततः क्ष्मापेन वीक्षितः ॥ ४१९ ।।
क्षणादैक्ष्यन्त सामन्तमायूरातपवारणैः ।
सोऽन्यानि पितुरुद्यानभ्रमं पुष्णन्ति जिष्णुना ॥ ४२० ॥
महीयोभिर्महःपुञ्जैर्मुहुर्मञ्जरयद्दिशः।
विमानमवनाम्यैकमाजिहीत महीतलम् ॥ ४२१ ।।
नरेन्द्रखेचरेन्द्राभ्यां ताभ्यां तस्मादनुद्रुतः।
नितान्तमुदितस्वान्तः कपिकेतुरवातरत् ॥ ४२२ ॥
पित्रोः क्रमात्क्रमाम्भोजमाकुलालिकुलायितैः ।
ममार्जावर्जयन्मौलिं कौन्तेयः कुन्तलोच्चयैः ॥ ४२३ ॥
उत्थाप्य रभसात्ताभ्यामानन्दाश्रुकणोत्करैः ।
सिच्यमानतनुः स्वैरमालिलिङ्गे धनंजयः ॥ ४२४ ॥
तीर्थतोयाभिषेकोत्थपावित्र्यस्यैव काम्यया ।
ताभ्यां कपिध्वजो मूर्ध्नि मुहुर्मुहुरचुम्ब्यत ॥ ४२५ ॥
समस्तजाह्वेयादिगुरुवर्गे समन्ततः ।
प्रतिपेदे यथौचित्यमाचारः सव्यसाचिना ॥ ४२६ ॥
स ननाम क्रमाज्ज्येष्ठबान्धवान्विश्वबान्धवः ।
श्लिष्यति स्म च सानन्दं वन्दमानान्कनीयसः ॥ ४२७ ॥
भूपतिप्रमुखं सर्वं ततः स्वजनमण्डलम् ।
आरोहयद्विमानं तत्स्वयमप्यारुरोह सः॥ ४२८॥