पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/१७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् ।
ततस्तद्भक्तिसंभाररज्जुसदानिताशयः ।
निनाय दिवसापाण्डुपुत्रस्तत्रैव कांश्चन ॥ ३९० ।।
कश्चिदप्यन्यदा पूर्वसंस्तुतो हस्तिनापुरात् ।
'अभ्येत्य रमसोत्फालः फाल्गुनाय व्यजिज्ञपत् ।। ३९१ ।।
कुमार चारचक्रेभ्यो निशम्य त्वामिहागतम् ।
स्नेहादाह्वातुमहाय पिता ते प्रजिघाय माम् ॥ ३९२ ।।
वार्द्धकार्हआः क्रियाः कर्तुं स्वयं राज्ये तपःसुतम् ।
अभिषेक्तुमनाः काममुर्वीशस्त्वामुपेक्षते ॥ ३९३ ॥
प्रतिप्रातरपश्यन्ती कुन्ती त्वद्वदनं पुनः ।
वहत्यजस्रमस्राम्बु जम्बालजटिले दृशौ ॥ ३९४ ॥
इत्युपश्रुत्य तद्वाचमाचान्तहृदयो मुदा ।
पित्रोः स्नेहेन बीभत्सुर्नितरामौत्सुकायत ॥ ३९५ ॥
ततस्तमाह बीभत्सुराद्यं शत्रुंजये जिनम् ।
नमस्कृत्याहमायात एव त्वं तु पुरो व्रज ॥ ३९६ ॥
इति संप्रेष्य तं शत्रुंजयं प्रति धनंजयः।
सार्धं भूखेचरेन्द्राभ्यां चलति स विहायसा ।। ३९७ ॥
तस्मिन्परमया भक्त्या वन्दित्वादिजिनेश्वरम् ।
द्वारकामगमत्कृष्णदर्शनोत्कण्ठितोऽर्जुनः ॥ ३९८ ॥
प्रत्युज्जगाम गोविन्दस्तमायान्तं नभोध्वना ।
नीलकण्ठ इवोत्कण्ठातरलो नवनीरदम् ॥ ३९९ ॥
तौ मिथः परिरेभाते प्रत्यक्प्रागनिलाविव ।
शरीरद्वयमुत्सृज्य बिभ्रतावेकतामिव ।। ४०० ॥
पीयमानं तरत्तारैः पौरनारी विलोचनैः ।
निन्ये हरिनिजं धाम सपरीवारमर्जुनम् ॥ ४०१ ॥
फाल्गुनाय मुरारातेरुपचारं चिकीर्षतः ।
स्वाराज्यमपि निर्जेतुमाचकाङ्क्ष मनस्तदा ।। ४०२ ॥