पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/१७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१८८
काव्यमाला।
उत्सवैकमयं स्मेरदानन्दलहरीमयम् ।
सर्वसंपन्मयं स्वर्गसर्वाङ्गीणकलामयम् ॥ ३७७ ॥
प्रत्याहर्ता प्रभावत्या बतायमयमर्जुनः।
इति निर्दिश्यमानोऽसौ लोकैः प्रीत्याविशत्पुरीम् ॥ ३७८
राज्ञा च राजपत्न्या च राजवेश्मन्यनुद्रुतः ।
विवेश विक्रमश्रीभ्यां मूर्तिमभ्द्यामिवार्जुनः ॥ ३७९ ।।
तत्र सिंहासने हैमे निवेश्य विवशो मुदा ।
जगाद पार्थिवः पार्थमित्थं विनयवामनः ॥ ३८० ॥
प्रीतिक्रीतानिमान्प्राणान्भुजक्रीतिरिमाः श्रियः ।
गुणक्रीतमिदं राज्यं कृतार्थय यथारूचि ॥ ३८१ ॥
पार्थोऽब्रवीदसामान्यस्वाजन्ये स्वजने त्वयि ।
स्वर्गाधिपत्यमप्येतन्ममैव किमिवापरम् ।। ३८२ ॥
प्रौढप्रणयमन्योऽन्यमित्युल्लापवतोस्तयोः ।
क्षणेन मणिचूडोऽपि तत्र व्योमाध्वनागमत् ॥ ३८३ ॥
प्रणिपत्य यथौचित्यं तानशेषान्विशेषवित् ।
स खेचरपतिः पार्थमुवाच रचिताञ्जलिः ॥ ३८४ ॥
भगिनीहरणोद्भूतं जयोदाहरणं तव ।
उपगीतमुपश्रुत्य खचरैरहमागमम् ॥ ३८५ ॥
एकैकमवदानं ते वागीशस्यापि नेशते ।
गरीयस्यो गिरो वक्तुं किं पुनर्मादृशामिमाः ॥ ३८६ ॥
कृते किंतु प्रभावत्या पत्यानयनकर्मणि ।
राज्यदानाधमर्णोऽहं ब्रवीमि किमितः परम् ॥ ३८७ ।।
तमूचेऽथ पृथासूनुरहो किमिदमुच्यते ।
आत्मनैवात्मनः किं स्यादुत्तमर्णाधमर्णता ॥ ३८८ ॥
किं च मामुल्लसत्प्रीतिर्भगिनीयं प्रभावती।
शश्वत्रैलोक्यजैत्राभिराशीर्भिरभिनन्दतु ।। ३८९ ॥