पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/१७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् ।
१८५
सर्वोऽप्यनुपदी लोकस्तया हन्त प्रतारितः ।
विनङ्क्षयति क्षणादेव छद्मना को न वञ्च्यते ॥ ३६४ ॥
तदुपादाय दीर्घाक्षीमेतां गत्वा च सत्वरम् ।
'भ्रातस्त्रायस्व विश्वस्य जन्तुजातस्य जीवितम् ।। ३६५॥
अहं तु गन्तुमिच्छामि भावज्ञ त्वदनुज्ञया ।
नातः परं तवाप्यस्मि मुखं दर्शयितुं क्षमः ॥ ३६६ ॥
ततो विसृज्य तं प्रीत्या प्रणिपत्य प्रभावतीम् ।
यानमारोप्य च स्वैरं दधावे श्वेतसैन्धवः ।। ३६७ ॥
भवत्प्राणपरित्यागाशङ्कातरलिताशयः।
देवस्त्वरितमेवायमुद्देशमिममागमत् ॥ ३६८॥
कपिध्वजप्रभावत्योर्दृष्ट्वैतत्तव वैशसम् ।
भूपाल यदभूद्दुःखं जानीतस्तदिमौ परम् ॥ ३६९ ।।
नश्यति स ततो देवीपाणिपूताम्बुसेकतः ।
विध्यातायाश्चितायास्ते सेयं विद्या प्रतारिणी ॥ ३७०॥
परप्रमोदसंभारसंभूतपुलकाङ्कुरः ।
ततो हेमाङ्गदो राजा व्याजहार कपिध्वजम् ॥ ३७१ ॥
शङ्के परोपकाराय सृष्टिर्भुवि भवादृशाम् ।
निर्माणं हि सहस्रांशोर्जगदालोकहेतवे ॥ ३७२ ॥
वीरोत्तंस त्वया देवीमिमामाहरताधुना ।
इयतो जन्तुजातस्य संहारः परिरक्षितः ।। ३७३ ॥
कोटिशः श्रुतमद्वैतं त्वद्भुजस्तम्भवैभवम् ।
साक्षात्कृतमिदानीं तु देवादेवमिदं मया ॥ ३७४ ।।
वस्तु नास्त्येव तद्येन तव स्यात्प्रत्युपक्रिया ।
जनोऽयमनुमन्तव्यः किकरत्वाय केवलम् ।। ३७५ ।।
इति व्याहृत्य भूपेन प्रश्रयेण गरीयसा ।
अनुनीय तदा निन्ये हिरण्यपुरमर्जुनः ॥ ३७६ ॥