पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/१७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् ।
१८५
सरलैकस्वभावोऽयं मा स्म मायामुना विना ।
खेचरेण रणे शान्तं यद्वा नन्वेष फाल्गुनः॥ ३३८॥
सर्वाः संभूय बीभत्सोर्भवत्यः कुलदेवताः ।
'शरीरमधितिष्ठन्तु यथा स्याद्विजयी युधि ।। ३३९ ॥
पतिव्रताव्रतस्यास्य कोऽपि मे महिमास्ति चेत् ।
किरीटिना दुरात्मायं जीयतां तन्नभश्चरः ॥ ३४० ॥
अस्याममूदृशानल्पविकल्पाकुलचेतसि ।
उवाच विजयो वाचं खेचरापसदं पुनः ।। ३४१ ॥
गृहाण रे क्षणात्पाणौ किमप्यायुधमात्मनः ।
खङ्गोऽयं दुष्ट ते रुष्टस्तदेष न भविष्यसि ॥ ३४२ ॥
ऊचे च फाल्गुन वल्गु स बलात्समराङ्गणे ।
रे मनुष्यकृमे नश्य किमु रोदयसि प्रियाम् ॥ ३४३ ॥
विधाघरवधूवर्गवैधव्यव्रतदीक्षिता ।
कष्टं कृपाणयष्टिर्मे पतन्ती त्रपते त्वयि ॥ ३४४ ॥
बालां को नाम मत्पाणे रतामाच्छेतुमिच्छति ।
को हि कण्ठीरवाक्रान्तां मृगीमाक्रष्टुमीश्वरः ॥ ३४५॥
ममामर्षहुताशेऽस्मिन्नाहुतीयन्मुधा ततः ।
कथं मनुष्यलोकस्य कौतुकान्यपनेष्यति ॥ ३४६॥
इत्युदीरयति स्वैरं तस्मिन्वक्ति स्म पाण्डवः ।
रे न शौण्डीरिमा वाचि भुजेष्वेवावतिष्ठते ॥ ३४७॥
किंतु दुर्दान्तवृत्तीनां शासनाय भवादृशाम् ।
उद्यता अपि नो पूर्वं प्रहरन्ति कुरूद्वहाः ॥ ३४८ ॥
ततः स्थमानमानीय मानसं साध्वसाकुलम् ।
निपातयतु निस्त्रिंशं नृशंसं प्रथमो भवान् ॥ ३४९ ।।
इत्याक्षेपगिरा सोऽपि दूरोज्जागरपौरुषः ।
अपकोशमसिं कृत्वा प्रजहार कपिध्वजम् ॥ ३५० ॥
२४